Yuddhakanda, Sarga 82, Verse 1
तानि नागसहस्राणि सारोहाणां च वाजिनाम्
रथानां चाग्निवर्णानां सध्वजानां सहस्रशः
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
तानि नागसहस्राणि सारोहाणां च वाजिनाम्
रथानां चाग्निवर्णानां सध्वजानां सहस्रशः
राक्षसानां सहस्राणि गदापरिघयोधिनाम्
काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम्
निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः
रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा
दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः
राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः
विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः
राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन्
कथं शूर्पणखा वृद्धा कराला निर्णतोदरी
आससाद वने रामं कन्दर्पमिव रूपिणम्
सुकुमारं महासत्त्वं सर्वभूतहिते रतम्
तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता
कथं सर्वगुणैर्हीना गुणवन्तं महौजसं
सुमुखं दुर्मुखी रामं कामयामास राक्षसी
जनस्यास्याल्पभाग्यत्वात्पलिनी श्वेतमूर्धजा
अकार्यमपहास्यं च सर्वलोकविगर्हितम्
राक्षसानां विनाशाय दूषणस्य खरस्य च
चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम्
तन्निमित्तमिदं वैरं रावणेन कृतं महत्
वधाय नीता सा सीता दशग्रीवेण रक्षसा
न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्
बद्धं बलवता वैरमक्षयं राघवेण ह
वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसं
हतमेकेन रामेण पर्याप्तं तन्निदर्शनम्
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्
निहतानि जनस्थाने शरैरग्निशिखोपमैः
खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा
शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम्
हतो योजनबाहुश्च कबन्धो रुधिराशनः
क्रोधार्तो विनदन्सोऽथ पर्याप्तं तन्निदर्शनम्
जघान बलिनं रामः सहस्रनयनात्मजम्
बालिनं मेघसंकाशं पर्याप्तं तन्निदर्शनम्
ऋश्यमूके वसञ्शैले दीनो भग्नमनोरथः
सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम्
धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्
युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते
विभीषणवचः कुर्याद्यदि स्म धनदानुजः
श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत्
कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्
प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते
मम पुत्रो मम भ्राता मम भर्ता रणे हतः
इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले
रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः
रणे रामेण शूरेण राक्षसाश्च पदातयः
रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः
हन्ति नो रामरूपेण यदि वा स्वयमन्तकः
हतप्रवीरा रामेण निराशा जीविते वयम्
अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे
रामहस्ताद्दशग्रीवः शूरो दत्तवरो युधि
इदं भयं महाघोरमुत्पन्नं नावबुध्यते
न देवा न च गन्धर्वा न पिशाचा न राक्षसाः
उपसृष्टं परित्रातुं शक्ता रामेण संयुगे
उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे
कथयिष्यन्ति रामेण रावणस्य निबर्हणम्
पितामहेन प्रीतेन देवदानवराक्षसैः
रावणस्याभयं दत्तं मानुषेभ्यो न याचितम्
तदिदं मानुषान्मन्ये प्राप्तं निःसंशयं भयम्
जीवितान्तकरं घोरं रक्षसां रावणस्य च