Valmiki Ramayana

Yuddhakanda, Sarga 81

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 1

स प्रविश्य सभां राजा दीनः परमदुःखितः

निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन्

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 2

अब्रवीच्च तदा सर्वान्बलमुख्यान्महाबलः

रावणः प्राञ्जलीन्वाक्यं पुत्रव्यसनकर्शितः

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 3

सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः

निर्यान्तु रथसंघैश्च पादातैश्चोपशोभिताः

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 4

एकं रामं परिक्षिप्य समरे हन्तुमर्हथ

प्रहृष्टा शरवर्षेण प्रावृट्काल इवाम्बुदाः

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 5

अथ वाहं शरैर्तीक्ष्णैर्भिन्नगात्रं महारणे

भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 6

इत्येवं राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः

निर्ययुस्ते रथैः शीघ्रं नागानीकैश्च संवृताः

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 7

स संग्रामो महाभीमः सूर्यस्योदयनं प्रति

रक्षसां वानराणां च तुमुलः समपद्यत

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 8

ते गदाभिर्विचित्राभिः प्रासैः खड्गैः परश्वधैः

अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 9

मातंगरथकूलस्य वाजिमत्स्या ध्वजद्रुमाः

शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 10

ध्वजवर्मरथानश्वान्नानाप्रहरणानि च

आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 11

केशान्कर्णललाटांश्च नासिकाश्च प्लवंगमाः

रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन्

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 12

एकैकं राक्षसं संख्ये शतं वानरपुंगवाः

अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 13

तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः

निर्जघ्नुर्वानरान्घोरान्राक्षसाः पर्वतोपमाः

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 14

राक्षसैर्वध्यमानानां वानराणां महाचमूः

शरण्यं शरणं याता रामं दशरथात्मजम्

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 15

ततो रामो महातेजा धनुरादाय वीर्यवान्

प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 16

प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे

नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 17

कृतान्येव सुघोराणि रामेण रजनीचराः

रणे रामस्य ददृशुः कर्माण्यसुकराणि च

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 18

चालयन्तं महानीकं विधमन्तं महारथान्

ददृशुस्ते न वै रामं वातं वनगतं यथा

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 19

छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्

बलं रामेण ददृशुर्न रमं शीघ्रकारिणम्

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 20

प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम्

इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 21

एष हन्ति गजानीकमेष हन्ति महारथान्

एष हन्ति शरैस्तीक्ष्णैः पदातीन्वाजिभिः सह

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 22

इति ते राक्षसाः सर्वे रामस्य सदृशान्रणे

अन्योन्यकुपिता जघ्नुः सादृश्याद्राघवस्य ते

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 23

न ते ददृशिरे रामं दहन्तमरिवाहिनीम्

मोहिताः परमास्त्रेण गान्धर्वेण महात्मना

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 24

ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः

पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 25

भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः

अलातचक्रप्रतिमां ददृशुस्ते न राघवम्

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 26

शरीरनाभि सत्त्वार्चिः शरीरं नेमिकार्मुकम्

ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम्

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 27

दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्

ददृशू रामचक्रं तत्कालचक्रमिव प्रजाः

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 28

अनीकं दशसाहस्रं रथानां वातरंहसाम्

अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम्

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 29

चतुर्दशसहस्राणि सारोहाणां च वाजिनाम्

पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्

Valmiki Ramayana

Yuddhakanda, Sarga 81, Verse 30

दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः

हतान्येकेन रामेण रक्षसां कामरूपिणाम्