Yuddhakanda, Sarga 80, Verse 1
ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम्
आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम्
आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः
युद्धे हतो महाराज लक्ष्मणेन तवात्मजः
विभीषणसहायेन मिषतां नो महाद्युते
शूरः शूरेण संगम्य संयुगेष्वपराजितः
लक्ष्णनेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित्
स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्
घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत्
उपलभ्य चिरात्संज्ञां राजा राक्षसपुंगवः
पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः
हा राक्षसचमूमुख्य मम वत्स महारथ
जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः
ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि
मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं रणे
अद्य वैवस्वतो राजा भूयो बहुमतो मम
येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा
एष पन्थाः सुयोधानां सर्वामरगणेष्वपि
यः कृते हन्यते भर्तुः स पुमान्स्वर्गमृच्छति
अद्य देवगणाः सर्वे लोकपालास्तथर्षयः
हतमिन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः
अद्य लोकास्त्रयः कृत्स्नाः पृथिवी च सकानना
एकेनेन्द्रजिता हीना शूण्येव प्रतिभाति मे
अद्य नैरृतकन्यायां श्रोष्याम्यन्तःपुरे रवम्
करेणुसंघस्य यथा निनादं गिरिगह्वरे
यौवराज्यं च लङ्कां च रक्षांसि च परंतप
मातरं मां च भार्यां च क्व गतोऽसि विहाय नः
मम नाम त्वया वीर गतस्य यमसादनम्
प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे
स त्वं जीवति सुग्रीवे राघवे च सलक्ष्मणे
मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः
एवमादिविलापार्तं रावणं राक्षसाधिपम्
आविवेश महान्कोपः पुत्रव्यसनसंभवः
घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्छितम्
बभूव रूपं रुद्रस्य क्रुद्धस्येव दुरासदम्
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवः
दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः
दन्तान्विदशतस्तस्य श्रूयते दशनस्वनः
यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव
कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत
तस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे
तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्
वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः
ततः परमसंक्रुद्धो रावणो राक्षसाधिपः
अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे
मया वर्षसहस्राणि चरित्वा दुश्चरं तपः
तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः
तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः
नासुरेभ्यो न देवेभ्यो भयं मम कदाचन
कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्
देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः
तेन मामद्य संयुक्तं रथस्थमिह संयुगे
प्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरंदरः
यत्तदाभिप्रसन्नेन सशरं कार्मुकं महत्
देवासुरविमर्देषु मम दत्तं स्वयम्भुवा
अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां महत्
रामलक्ष्मणयोरेव वधाय परमाहवे
स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः
समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत
प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान्
दीनो दीनस्वरान्सर्वांस्तानुवाच निशाचरान्