Valmiki Ramayana

Yuddhakanda, Sarga 79

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 1

रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः

बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 2

ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान्

संनिवर्त्य महातेजास्तांश्च सर्वान्वनौकसः

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 3

आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ

विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 4

ततो राममभिक्रम्य सौमित्रिरभिवाद्य च

तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा

आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम्

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 5

रावणस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना

न्यवेदयत रामाय तदा हृष्टो विभीषणः

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 6

उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्

मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन्

उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 7

कृतं परमकल्याणं कर्म दुष्करकारिणा

निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः

बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम्

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 8

तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम्

बलेनावृत्य महता निहनिष्यामि दुर्जयम्

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 9

त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे

न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 10

स तं भ्रातरमाश्वास्य पारिष्वज्य च राघवः

रामः सुषेणं मुदितः समाभाष्येदमब्रवीत्

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 11

सशल्योऽयं महाप्राज्ञः सौमित्रिर्मित्रवत्सलः

यथा भवति सुस्वस्थस्तथा त्वं समुपाचर

विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 12

कृष वानरसैन्यानां शूराणां द्रुमयोधिनाम्

ये चान्येऽत्र च युध्यन्तः सशल्या व्रणिनस्तथा

तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 13

एवमुक्तः स रामेण महात्मा हरियूथपः

लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 14

स तस्य गन्धमाघ्राय विशल्यः समपद्यत

तदा निर्वेदनश्चैव संरूढव्रण एव च

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 15

विभीषण मुखानां च सुहृदां राघवाज्ञया

सर्ववानरमुख्यानां चिकित्सां स तदाकरोत्

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 16

ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः

सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 17

तथैव रामः प्लवगाधिपस्तदा; विभीषणश्चर्क्षपतिश्च जाम्बवान्

अवेक्ष्य सौमित्रिमरोगमुत्थितं; मुदा ससैन्यः सुचिरं जहर्षिरे

Valmiki Ramayana

Yuddhakanda, Sarga 79, Verse 18

अपूजयत्कर्म स लक्ष्मणस्य; सुदुष्करं दाशरथिर्महात्मा

हृष्टा बभूवुर्युधि यूथपेन्द्रा; निशम्य तं शक्रजितं निपातितम्