Yuddhakanda, Sarga 78, Verse 1
स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः
इन्द्रजित्परमक्रुद्धः संप्रजज्वाल तेजसा
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः
इन्द्रजित्परमक्रुद्धः संप्रजज्वाल तेजसा
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्
विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव
निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः
भर्तारं न जहुर्युद्धे संपतन्तस्ततस्ततः
स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः
ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः
मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमः
अवारयदसंभ्रान्तो लक्ष्मणः सुदुरासदम्
अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः
ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित्
अविध्यत्परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन्
तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः
रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः
स तथाप्यर्दितो बाणै राक्षसेन महामृधे
तमाशु प्रतिविव्याध लक्ष्मणः पनभिः शरैः
लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ
अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ
तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ
घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये
तस्मै दृढतरं क्रुद्धो हताश्वाय विभीषणः
वज्रस्पर्शसमान्पञ्च ससर्जोरसि मार्गणान्
ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः
बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः
स पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददे
उत्तमं रक्षसां मध्ये यमदत्तं महाबलः
तं समीक्ष्य महातेजा महेषुं तेन संहितम्
लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः
कुबेरेण स्वयं स्वप्ने यद्दत्तममितात्मना
दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः
ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ
विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया
तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ
मुखेन मुखमाहत्य संनिपेततुरोजसा
तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च
संग्रामे शतधा यातौ मेदिन्यां विनिपेततुः
शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि
व्रीडितो जातरोषौ च लक्ष्मणेन्द्रजितावुभौ
सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे
रौद्रं महेद्रजिद्युद्धे व्यसृजद्युधि विष्ठितः
तयोः सुतुमुलं युद्धं संबभूवाद्भुतोपमम्
गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन्
भैरवाभिरुते भीमे युद्धे वानरराक्षसाम्
भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ
ऋषयः पितरो देवा गन्धर्वा गरुणोरगाः
शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे
अथान्यं मार्गणश्रेष्ठं संदधे रावणानुजः
हुताशनसमस्पर्शं रावणात्मजदारुणम्
सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्
सुवर्णविकृतं वीरः शरीरान्तकरं शरम्
दुरावारं दुर्विषहं राक्षसानां भयावहम्
आशीविषविषप्रख्यं देवसंघैः समर्चितम्
येन शक्रो महातेजा दानवानजयत्प्रभुः
पुरा देवासुरे युद्धे वीर्यवान्हरिवाहनः
तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्
शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठोऽभिसंदधे
संधायामित्रदलनं विचकर्ष शरासनम्
सज्यमायम्य दुर्धर्शः कालो लोकक्षये यथा
संधाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत्
लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः