Yuddhakanda, Sarga 77, Verse 1
युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ
शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ
शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि
ततो विस्फारयामास महद्धनुरवस्थितः
उत्ससर्ज च तीक्ष्णाग्रान्राक्षसेषु महाशरान्
ते शराः शिखिसंकाशा निपतन्तः समाहिताः
राक्षसान्दारयामासुर्वज्रा इव महागिरीन्
विभीषणस्यानुचरास्तेऽपि शूलासिपट्टसैः
चिच्छेदुः समरे वीरान्राक्षसान्राक्षसोत्तमाः
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः
बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः
ततः संचोदयानो वै हरीन्रक्षोरणप्रियान्
उवाच वचनं काले कालज्ञो रक्षसां वरः
एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः
एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः
अस्मिन्विनिहते पापे राक्षसे रणमूर्धनि
रावणं वर्जयित्वा तु शेषमस्य बलं हतम्
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः
कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः
अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः
कम्पनः सत्त्ववन्तश्च देवान्तकनरान्तकौ
एतान्निहत्यातिबलान्बहून्राक्षससत्तमान्
बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु
एतावदिह शेषं वो जेतव्यमिह वानराः
हताः सर्वे समागम्य राक्षसा बलदर्पिताः
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम
घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम्
हन्तुकामस्य मे बाष्पं चक्शुश्चैव निरुध्यते
तदेवैष महाबाहुर्लक्ष्मणः शमयिष्यति
वानरा घ्नन्तुं संभूय भृत्यानस्य समीपगान्
इति तेनातियशसा राक्षसेनाभिचोदिताः
वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः
ततस्ते कपिशार्दूलाः क्ष्वेडन्तश्च मुहुर्मुहुः
मुमुचुर्विविधान्नादान्मेघान्दृष्ट्वेव बर्हिणः
जाम्बवानपि तैः सर्वैः स्वयूथैरभिसंवृतः
अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान्
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः
परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः
शरैः परशुभिस्तीक्ष्णैः पट्टसैर्यष्टितोमरैः
जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम्
स संप्रहारस्तुमुलः संजज्ञे कपिराक्षसाम्
देवासुराणां क्रुद्धानां यथा भीमो महास्वनः
हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात्
रक्षसां कदनं चक्रे समासाद्य सहस्रशः
स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि
लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत
तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ
शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम्
अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ
चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ
न ह्यादानं न संधानं धनुषो वा परिग्रहः
न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः
न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम्
अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात्
चापवेगप्रमुक्तैश्च बाणजालैः समन्ततः
अन्तरिक्षेऽभिसंछन्ने न रूपाणि चकाशिरे
तमसा पिहितं सर्वमासीद्भीमतरं महत्
न तदानीं ववौ वायुर्न जज्वाल च पावकः
स्वस्त्यस्तु लोकेभ्य इति जजल्पश्च महर्षयः
संपेतुश्चात्र संप्राप्ता गन्धर्वाः सह चारणैः
अथ राक्षससिंहस्य कृष्णान्कनकभूषणान्
शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान्
ततोऽपरेण भल्लेन सूतस्य विचरिष्यतः
लाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत्