Yuddhakanda, Sarga 70, Verse 1
राघवश्चापि विपुलं तं राक्षसवनौकसाम्
श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
राघवश्चापि विपुलं तं राक्षसवनौकसाम्
श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह
सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम्
श्रूयते हि यथा भीमः सुमहानायुधस्वनः
तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः
क्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः
ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः
आगच्छत्पश्चिमद्वारं हनूमान्यत्र वानरः
अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि
वानरैः कृतसंग्रामैः श्वसद्भिरभिसंवृतम्
दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम्
नीलमेघनिभं भीमं संनिवार्य न्यवर्तत
स तेन हरिसैन्येन संनिकर्षं महायशाः
शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत्
समरे युध्यमानानामस्माकं प्रेक्षतां च सः
जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः
उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदम
तदहं भवतो वृत्तं विज्ञापयितुमागतः
तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः
निपपात तदा भूमौ छिन्नमूल इव द्रुमः
तं भूमौ देवसंकाशं पतितं दृश्य राघवम्
अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः
असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः
प्रदहन्तमसह्यं च सहसाग्निमिवोत्थितम्
तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः
उवाच राममस्वस्थं वाक्यं हेत्वर्थसंहितम्
शुभे वर्त्मनि तिष्ठन्तं त्वामार्यविजितेन्द्रियम्
अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः
भूतानां स्थावराणां च जङ्गमानां च दर्शनम्
यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम्
नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत्
भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात्
तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि
धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः
यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः
धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत्
यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः
क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव
वधकर्महतो धर्मः स हतः कं वधिष्यति
अथ वा विहितेनायं हन्यते हन्ति वा परम्
विधिरालिप्यते तेन न स पापेन कर्मणा
अदृष्टप्रतिकारेण अव्यक्तेनासता सता
कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन
यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किंचन
त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते
अथ वा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते
दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः
बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे
धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले
अथ चेत्सत्यवचनं धर्मः किल परंतप
अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता
यदि धर्मो भवेद्भूत अधर्मो वा परंतप
न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः
अधर्मसंश्रितो धर्मो विनाशयति राघव
सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः
मम चेदं मतं तात धर्मोऽयमिति राघव
धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा