Yuddhakanda, Sarga 69, Verse 1
श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम्
वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम्
वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः
तानुवाच ततः सर्वान्हनूमान्मारुतात्मजः
विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक्
कस्माद्विषण्णवदना विद्रवध्वं प्लवंगमाः
त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम्
पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे
शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम्
एवमुक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता
शैलशृङ्गान्द्रुमांश्चैव जगृहुर्हृष्टमानसाः
अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः
परिवार्य हनूमन्तमन्वयुश्च महाहवे
स तैर्वानरमुख्यैस्तु हनूमान्सर्वतो वृतः
हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम्
स राक्षसानां कदनं चकार सुमहाकपिः
वृतो वानरसैन्येन कालान्तकयमोपमः
स तु शोकेन चाविष्टः क्रोधेन च महाकपिः
हनूमान्रावणि रथे महतीं पातयच्छिलाम्
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा
विधेयाश्व समायुक्तः सुदूरमपवाहितः
तमिन्द्रजितमप्राप्य रथथं सहसारथिम्
विवेश धरणीं भित्त्वा सा शिलाव्यर्थमुद्यता
पतितायां शिलायां तु रक्षसां व्यथिता चमूः
तमभ्यधावञ्शतशो नदन्तः काननौकसः
ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः
चिक्षिपुर्द्विषतां मध्ये वानरा भीमविक्रमाः
वानरैर्तैर्महावीर्यैर्घोररूपा निशाचराः
वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणक्षितौ
स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्
प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ
स शरौघानवसृजन्स्वसैन्येनाभिसंवृतः
जघान कपिशार्दूलान्सुबहून्दृष्टविक्रमः
शूलैरशनिभिः खड्गैः पट्टसैः कूटमुद्गरैः
ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे
सस्कन्धविटपैः सालैः शिलाभिश्च महाबलैः
हनूमान्कदनं चक्रे रक्षसां भीमकर्मणाम्
स निवार्य परानीकमब्रवीत्तान्वनौकसः
हनूमान्संनिवर्तध्वं न नः साध्यमिदं बलम्
त्यक्त्वा प्राणान्विचेष्टन्तो राम प्रियचिकीर्षवः
यन्निमित्तं हि युध्यामो हता सा जनकात्मजा
इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च
तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम्
इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान्
शनैः शनैरसंत्रस्तः सबलः स न्यवर्तत
स तु प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः
निकुम्भिलामधिष्ठाय पावकं जुहुवे न्द्रजित्
यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसा
हूयमानः प्रजज्वाल होमशोणितभुक्तदा
सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः
संध्यागत इवादित्यः स तीव्राग्निः समुत्थितः
अथेन्द्रजिद्राक्षसभूतये तु; जुहाव हव्यं विधिना विधानवत्
दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते; महासमूहेषु नयानयज्ञाः