Yuddhakanda, Sarga 68, Verse 1
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः
संनिवृत्याहवात्तस्मात्प्रविवेश पुरं ततः
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः
संनिवृत्याहवात्तस्मात्प्रविवेश पुरं ततः
सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम्
क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः
स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः
इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः
इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ
रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा
इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा
बलेन महतावृत्य तस्या वधमरोचयत्
मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः
हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ
तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः
उत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः
हनूमान्पुरतस्तेषां जगाम कपिकुञ्जरः
प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम्
स ददर्श हतानन्दां सीतामिन्द्रजितो रथे
एकवेणीधरां दीनामुपवासकृशाननाम्
परिक्लिष्टैकवसनाममृजां राघवप्रियाम्
रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम्
तां निरीक्ष्य मुहूर्तं तु मैथिलीमध्यवस्य च
बाष्पपर्याकुलमुखो हनूमान्व्यथितोऽभवत्
अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनाम्
दृष्ट्वा रथे स्तितां सीतां राक्षसेन्द्रसुताश्रिताम्
किं समर्थितमस्येति चिन्तयन्स महाकपिः
सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम्
तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः
कृत्वा विशोकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत्
तं स्त्रियं पश्यतां तेषां ताडयामास रावणिः
क्रोशन्तीं राम रामेति मायया योजितां रथे
गृहीतमूर्धजां दृष्ट्वा हनूमान्दैन्यमागतः
दुःखजं वारिनेत्राभ्यामुत्सृजन्मारुतात्मजः
अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोऽधिपात्मजम्
दुरात्मन्नात्मनाशाय केशपक्षे परामृशः
ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः
धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी
नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम
अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण
च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली
किं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि
सीतां च हत्वा न चिरं जीविष्यसि कथंचन
वधार्हकर्मणानेन मम हस्तगतो ह्यसि
ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः
इह जीवितमुत्सृज्य प्रेत्य तान्प्रतिलप्स्यसे
इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतः
अभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं प्रति
आपतन्तं महावीर्यं तदनीकं वनौकसाम्
रक्षसां भीमवेगानामनीकेन न्यवारयत्
स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम्
हरिश्रेष्ठं हनूमन्तमिन्द्रजित्प्रत्युवाच ह
सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः
तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः
इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर
सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम्
न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवंगम
पीडा करममित्राणां यत्स्यात्कर्तव्यमेत तत्
तमेवमुक्त्वा रुदतीं सीतां मायामयीं ततः
शितधारेण खड्गेन निजघानेन्द्रजित्स्वयम्
यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी
सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना
तामिन्द्रजित्स्त्रियं हत्वा हनूमन्तमुवाच ह
मया रामस्य पश्येमां कोपेन च निषूदिताम्