Yuddhakanda, Sarga 67, Verse 1
मकराक्षं हतं श्रुत्वा रावणः समितिंजयः
आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम्
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
मकराक्षं हतं श्रुत्वा रावणः समितिंजयः
आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम्
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ
अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे
किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः
यज्ञभूमौ स विधिवत्पावकं जुहुवे न्द्रजित्
जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः
आजग्मुस्तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः
शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा
सर्वतोऽग्निं समास्तीर्य शरपत्रैः समन्ततः
छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः
चरुहोमसमिद्धस्य विधूमस्य महार्चिषः
बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च
प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः
हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः
हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान्
आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम्
स वाजिभिश्चतुर्भिस्तु बाणैश्च निशितैर्युतः
आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः
शरैश्चन्द्रार्धचन्द्रैश्च स रथः समलंकृतः
जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः
बभूवेन्द्रजितः केतुर्वैदूर्यसमलंकृतः
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः
स बभूव दुराधर्षो रावणिः सुमहाबलः
सोऽभिनिर्याय नगरादिन्द्रजित्समितिंजयः
हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत्
अद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने
जयं पित्रे प्रदास्यामि रावणाय रणाधिकम्
कृत्वा निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम्
करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत
आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः
तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे
स ददर्श महावीर्यौ नागौ त्रिशिरसाविव
सृजन्ताविषुजालानि वीरौ वानरमध्यगौ
इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम्
संततानेषुधाराभिः पर्जन्य इव वृष्टिमान्
स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ
अचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ
धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ
तमस्त्रैः सुरसंकाशौ नैव पस्पर्शतुः शरैः
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः
दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृतः
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः
शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते
घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम्
स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः
स रामं सूर्यसंकाशैः शरैर्दत्तवरो भृशम्
विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ
हेमपुङ्खान्नरव्याघ्रौ तिग्मान्मुमुचतुः शरान्
अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः
निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः
अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ
तानिषून्पततो भल्लैरनेकैर्निचकर्ततुः