Yuddhakanda, Sarga 66, Verse 1
निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः
आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः
आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः
ततः प्रवृत्तं सुमहत्तद्युद्धं लोमहर्षणम्
निशाचरैः प्लवंगानां देवानां दानवैरिव
वृक्षशूलनिपातैश्च शिलापरिघपातनैः
अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः
शक्तिशूलगदाखड्गैस्तोमरैश्च निशाचराः
पट्टसैर्भिन्दिपालैश्च बाणपातैः समन्ततः
पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथा
कदनं कपिसिंहानां चक्रुस्ते रजनीचराः
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः
संभ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः
तान्दृष्ट्वा राक्षसाः सर्वे द्रवमाणान्वनौकसः
नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः
विद्रवत्सु तदा तेषु वानरेषु समन्ततः
रामस्तान्वारयामास शरवर्षेण राक्षसान्
वारितान्राक्षसान्दृष्ट्वा मकराक्षो निशाचरः
क्रोधानलसमाविष्टो वचनं चेदमब्रवीत्
तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते
त्याजयिष्यामि ते प्राणान्धनुर्मुक्तैः शितैः शरैः
यत्तदा दण्डकारण्ये पितरं हतवान्मम
मदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते
दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघव
यन्मयासि न दृष्टस्त्वं तस्मिन्काले महावने
दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह
काङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः
अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः
ये त्वया निहताः शूराः सह तैस्त्वं समेष्यसि
बहुनात्र किमुक्तेन शृणु राम वचो मम
पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे
अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे
अभ्यस्तं येन वा राम तेन वा वर्ततां युधि
मकराक्षवचः श्रुत्वा रामो दशरथात्मजः
अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम्
चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः
त्रिशिरा दूषणश्चापि दण्डके निहता मया
स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः
भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः
एवमुक्तस्तु रामेण खरपुत्रो निशाचरः
बाणौघानसृजत्तस्मै राघवाय रणाजिरे
ताञ्शराञ्शरवर्षेण रामश्चिच्छेद नैकधा
निपेतुर्भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः
तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा
खर राक्षसपुत्रस्य सूनोर्दशरथस्य च
जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा
धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे
देवदानवगन्धर्वाः किंनराश्च महोरगाः
अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम्
विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम्
कृतप्रतिकृतान्योन्यं कुर्वाते तौ रणाजिरे
राममुक्तास्तु बाणौघान्राक्षसस्त्वच्छिनद्रणे
रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः
बाणौघवितताः सर्वा दिशश्च विदिशस्तथा
संछन्ना वसुधा चैव समन्तान्न प्रकाशते
ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः
अष्टाभिरथ नाराचैः सूतं विव्याध राघवः
भित्त्वा शरै रथं रामो रथाश्वान्समपातयत्
विरथो वसुधां तिष्ठन्मकराक्षो निशाचरः
अतिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना
त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम्
विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः
स क्रोधात्प्राहिणोत्तस्मै राघवाय महाहवे