Yuddhakanda, Sarga 64, Verse 1
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्
प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्
प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत
ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम्
आददे परिघं वीरो नगेन्द्रशिखरोपमम्
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम्
यमदण्डोपमं भीमं रक्षसां भयनाशनम्
तमाविध्य महातेजाः शक्रध्वजसमं रणे
विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि
कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च
यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान्
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः
प्रजज्वाल सघोषश्च विधूम इव पावकः
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः
सह चैवामरावत्या सर्वैश्च भवनैः सह
सतारागणनक्षत्रं सचन्द्रं समहाग्रहम्
निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम्
दुरासदश्च संजज्ञे परिघाभरणप्रभः
क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः
राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात्
हनूमंस्तु विवृत्योरस्तस्थौ प्रमुखतो बली
परिघोपमबाहुस्तु परिघं भास्करप्रभम्
बली बलवतस्तस्य पातयामास वक्षसि
स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः
विशीर्यमाणः सहसा उल्का शतमिवाम्बरे
स तु तेन प्रहारेण चचाल च महाकपिः
परिघेण समाधूतो यथा भूमिचलेऽचलः
स तथाभिहतस्तेन हनूमान्प्लवगोत्तमः
मुष्टिं संवर्तयामास बलेनातिमहाबलः
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्
अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः
ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम्
मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता
स तु तेन प्रहारेण निकुम्भो विचचाल ह
स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम्
विचुक्रुशुस्तदा संख्ये भीमं लङ्कानिवासिनः
निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम्
स तथा ह्रियमाणोऽपि कुम्भकर्णात्मजेन हि
आजघानानिलसुतो वज्रवेगेन मुष्टिना
आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यत
हनूमानुन्ममथाशु निकुम्भं मारुतात्मजः
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च
उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान्
परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम्
उत्पाटयामास शिरो भैरवं नदतो महत्
अथ विनदति सादिते निकुम्भे; पवनसुतेन रणे बभूव युद्धम्
दशरथसुतराक्षसेन्द्रचम्वो;र्भृशतरमागतरोषयोः सुभीमम्