Yuddhakanda, Sarga 62, Verse 1
ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः
अर्थ्यं विजापयंश्चापि हनूमन्तं महाबलम्
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः
अर्थ्यं विजापयंश्चापि हनूमन्तं महाबलम्
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः
नेदानीमुपनिर्हारं रावणो दातुमर्हति
ये ये महाबलाः सन्ति लघवश्च प्लवंगमाः
लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः
ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे
लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः
आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः
गोपुराट्ट प्रतोलीषु चर्यासु विविधासु च
प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम्
तेषां गृहसहस्राणि ददाह हुतभुक्तदा
आवासान्राक्षसानां च सर्वेषां गृहमेधिनाम्
हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम्
सीधुपानचलाक्षाणां मदविह्वलगामिनाम्
कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम्
गदाशूलासि हस्तानां खादतां पिबतामपि
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह
त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः
तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम्
अदहत्पावकस्तत्र जज्वाल च पुनः पुनः
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च
हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च
रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः
मणिविद्रुमचित्राणि स्पृशन्तीव च भास्करम्
क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः
नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः
ज्वलनेन परीतानि तोरणानि चकाशिरे
विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे
विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः
त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशः
तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि
वज्रिवज्रहतानीव शिखराणि महागिरेः
तानि निर्दह्यमानानि दूरतः प्रचकाशिरे
हिमवच्छिखराणीव दीप्तौषधिवनानि च
हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि
रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि
बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः
अश्वं मुक्तं गजो दृष्ट्वा कच्चिद्भीतोऽपसर्पति
भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी
लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुंधरा
नारी जनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः
स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम्
प्रदग्धकायानपरान्राक्षसान्निर्गतान्बहिः
सहसाभ्युत्पतन्ति स्म हरयोऽथ युयुत्सवः
उद्घुष्टं वानराणां च राक्षसानां च निस्वनः
दिशो दश समुद्रं च पृथिवीं चान्वनादयत्
विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ
असंभ्रान्तौ जगृहतुस्तावुभौ धनुषी वरे
ततो विस्फारयाणस्य रामस्य धनुरुत्तमम्
बभूव तुमुलः शब्दो राक्षसानां भयावहः
अशोभत तदा रामो धनुर्विस्फारयन्महत्
भगवानिव संक्रुद्धो भवो वेदमयं धनुः
वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः
ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश
तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम्
कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि