Yuddhakanda, Sarga 61, Verse 1
तयोस्तदा सादितयो रणाग्रे; मुमोह सैन्यं हरियूथपानाम्
सुग्रीवनीलाङ्गदजाम्बवन्तो; न चापि किंचित्प्रतिपेदिरे ते
Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.
तयोस्तदा सादितयो रणाग्रे; मुमोह सैन्यं हरियूथपानाम्
सुग्रीवनीलाङ्गदजाम्बवन्तो; न चापि किंचित्प्रतिपेदिरे ते
ततो विषण्णं समवेक्ष्य सैन्यं; विभीषणो बुद्धिमतां वरिष्ठः
उवाच शाखामृगराजवीरा;नाश्वासयन्नप्रतिमैर्वचोभिः
मा भैष्ट नास्त्यत्र विषादकालो; यदार्यपुत्राववशौ विषण्णौ
स्वयम्भुवो वाक्यमथोद्वहन्तौ; यत्सादिताविन्द्रजिदस्त्रजालैः
तस्मै तु दत्तं परमास्त्रमेत;त्स्वयम्भुवा ब्राह्मममोघवेगम्
तन्मानयन्तौ यदि राजपुत्रौ; निपातितौ कोऽत्र विषादकालः
ब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिः
विभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत्
एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम्
यो यो धारयते प्राणांस्तं तमाश्वासयावहे
तावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ
उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः
छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः
स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः
पतितैः पर्वताकारैर्वानरैरभिसंकुलाम्
शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम्
सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्
जाम्बवन्तं सुषेणं च वेगदर्शनमाहुकम्
मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा
विभीषणो हनूमांश्च ददृशाते हतान्रणे
सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम्
अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः
सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्
मार्गते जाम्बवन्तं स्म हनूमान्सविभीषणः
स्वभावजरया युक्तं वृद्धं शरशतैश्चितम्
प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम्
दृष्ट्वा तमुपसंगम्य पौलस्त्यो वाक्यमब्रवीत्
कच्चिदार्यशरैस्तीर्ष्णैर्न प्राणा ध्वंसितास्तव
विभीषणवचः श्रुत्वा जाम्बवानृक्षपुंगवः
कृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत्
नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये
पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा
अञ्जना सुप्रजा येन मातरिश्वा च नैरृत
हनूमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित्
श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः
आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम्
नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे
आर्य संदर्शितः स्नेहो यथा वायुसुते परः
विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत्
शृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम्
तस्मिञ्जीवति वीरे तु हतमप्यहतं बलम्
हनूमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः
ध्रियते मारुतिस्तात मारुतप्रतिमो यदि
वैश्वानरसमो वीर्ये जीविताशा ततो भवेत्
ततो वृद्धमुपागम्य नियमेनाभ्यवादयत्
गृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः
श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः
पुनर्जातमिवात्मानं स मेने ऋक्षपुंगवः
ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान्
आगच्छ हरिशार्दूलवानरांस्त्रातुमर्हसि
नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा
त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन
ऋक्षवानरवीराणामनीकानि प्रहर्षय
विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ
गत्वा परममध्वानमुपर्युपरि सागरम्
हिमवन्तं नगश्रेष्ठं हनूमन्गन्तुमर्हसि
ततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम्
कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन