Yuddhakanda, Sarga 60, Verse 1
ततो हतान्राक्षसपुंगवांस्ता;न्देवान्तकादित्रिशिरोऽतिकायान्
रक्षोगणास्तत्र हतावशिष्टा;स्ते रावणाय त्वरितं शशंसुः
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो हतान्राक्षसपुंगवांस्ता;न्देवान्तकादित्रिशिरोऽतिकायान्
रक्षोगणास्तत्र हतावशिष्टा;स्ते रावणाय त्वरितं शशंसुः
ततो हतांस्तान्सहसा निशम्य; राजा मुमोहाश्रुपरिप्लुताक्षः
पुत्रक्षयं भ्रातृवधं च घोरं; विचिन्त्य राजा विपुलं प्रदध्यौ
ततस्तु राजानमुदीक्ष्य दीनं; शोकार्णवे संपरिपुप्लुवानम्
अथर्षभो राक्षसराजसूनु;रथेन्द्रजिद्वाक्यमिदं बभाषे
न तात मोहं प्रतिगन्तुमर्हसि; यत्रेन्द्रजिज्जीवति राक्षसेन्द्र
नेन्द्रारिबाणाभिहतो हि कश्चि;त्प्राणान्समर्थः समरेऽभिधर्तुम्
पश्याद्य रामं सहलक्ष्मणेन; मद्बाणनिर्भिन्नविकीर्णदेहम्
गतायुषं भूमितले शयानं; शरैः शितैराचितसर्वगात्रम्
इमां प्रतिज्ञां शृणु शक्रशत्रोः; सुनिश्चितां पौरुषदैवयुक्ताम्
अद्यैव रामं सहलक्ष्मणेन; संतापयिष्यामि शरैरमोघैः
अद्येन्द्रवैवस्वतविष्णुमित्र; साध्याश्विवैश्वानरचन्द्रसूर्याः
द्रक्ष्यन्ति मे विक्रममप्रमेयं; विष्णोरिवोग्रं बलियज्ञवाटे
स एवमुक्त्वा त्रिदशेन्द्रशत्रु;रापृच्छ्य राजानमदीनसत्त्वः
समारुरोहानिलतुल्यवेगं; रथं खरश्रेष्ठसमाधियुक्तम्
समास्थाय महातेजा रथं हरिरथोपमम्
जगाम सहसा तत्र यत्र युद्धमरिंदम
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः
संहर्षमाणा बहवो धनुःप्रवरपाणयः
गजस्कन्धगताः केचित्केचित्परमवाजिभिः
प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः
स शङ्खनिनदैर्भीमैर्भेरीणां च महास्वनैः
जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः
स शङ्खशशिवर्णेन छत्रेण रिपुसादनः
रराज परिपूर्णेन नभश्चन्द्रमसा यथा
अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः
चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम्
ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा
रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता
स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम्
राक्षसाधिपतिः श्रीमान्रावणः पुत्रमब्रवीत्
त्वमप्रतिरथः पुत्र जितस्ते युधि वासवः
किं पुनर्मानुषं धृष्यं न वधिष्यसि राघवम्
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः
रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम्
स संप्राप्य महातेजा युद्धभूमिमरिंदमः
स्थापयामास रक्षांसि रथं प्रति समन्ततः
ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः
जुहुवे राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा
स हविर्जालसंस्कारैर्माल्यगन्धपुरस्कृतैः
जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान्
शस्त्राणि शरपत्राणि समिधोऽथ विभीतकः
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा
स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः
छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः
सकृदेव समिद्धस्य विधूमस्य महार्चिषः
बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन्
प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः
हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः
सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः
धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत्
तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके
सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम्
स पावकं पावकदीप्ततेजा; हुत्वा महेन्द्रप्रतिमप्रभावः
सचापबाणासिरथाश्वसूतः; खेऽन्तर्दध आत्मानमचिन्त्यरूपः
स सैन्यमुत्सृज्य समेत्य तूर्णं; महारणे वानरवाहिनीषु
अदृश्यमानः शरजालमुग्रं; ववर्ष नीलाम्बुधरो यथाम्बु
ते शक्रजिद्बाणविशीर्णदेहा; मायाहता विस्वरमुन्नदन्तः
रणे निपेतुर्हरयोऽद्रिकल्पा; यथेन्द्रवज्राभिहता नगेन्द्राः