Yuddhakanda, Sarga 59, Verse 1
स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम्
भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान्
Containing 106 sacred Sanskrit shlokas with multi-author commentaries and translations.
स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम्
भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान्
पितृव्यौ चापि संदृश्य समरे संनिषूदितौ
महोदरमहापार्श्वौ भ्रातरौ राक्षसर्षभौ
चुकोप च महातेजा ब्रह्मदत्तवरो युधि
अतिकायोऽद्रिसंकाशो देवदानवदर्पहा
स भास्करसहस्रस्य संघातमिव भास्वरम्
रथमास्थाय शक्रारिरभिदुद्राव वानरान्
स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः
नाम विश्रावयामास ननाद च महास्वनम्
तेन सिंहप्रणादेन नामविश्रावणेन च
ज्याशब्देन च भीमेन त्रासयामास वानरान्
ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे
भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश
तेऽतिकायं समासाद्य वानरा मूढचेतसः
शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे
ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्
ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत्
स तं दृष्ट्वा महात्मानं राघवस्तु सुविस्मितः
वानरान्सान्त्वयित्वा तु विभीषणमुवाच ह
कोऽसौ पर्वतसंकाशो धनुष्मान्हरिलोचनः
युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः
य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः
अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः
कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते
आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः
धनूंसि चास्य सज्यानि हेमपृष्ठानि सर्वशः
शोभयन्ति रथश्रेष्ठं शक्रपातमिवाम्बरम्
क एष रक्षः शार्दूलो रणभूमिं विराजयन्
अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा
ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते
सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन्
त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलंकृतम्
शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते
सध्वजः सपताकश्च सानुकर्षो महारथः
चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः
विंशतिर्दश चाष्टौ च तूणीररथमास्थिताः
कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः
द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौ
चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ
रक्तकण्ठगुणो धीरो महापर्वतसंनिभः
कालः कालमहावक्त्रो मेघस्थ इव भास्करः
काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते
शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः
कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम्
पुनर्वस्वन्तरगतं पूर्णबिम्बमिवैन्दवम्
आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम्
यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः
स पृष्ठो राजपुत्रेण रामेणामिततेजसा
आचचक्षे महातेजा राघवाय विभीषणः
दशग्रीवो महातेजा राजा वैश्रवणानुजः
भीमकर्मा महोत्साहो रावणो राक्षसाधिपः
तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो रणे
वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः
अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे
भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः
यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया
तनयं धान्यमालिन्या अतिकायमिमं विदुः
एतेनाराधितो ब्रह्मा तपसा भावितात्मना
अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः