Yuddhakanda, Sarga 58, Verse 1
नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः
देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः
देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः
आरूढो मेघसंकाशं वारणेन्द्रं महोदरः
वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान्
भ्रातृव्यसनसंतप्तस्तदा देवान्तको बली
आदाय परिघं दीप्तमङ्गदं समभिद्रवत्
रथमादित्यसंकाशं युक्तं परमवाजिभिः
आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात्
स त्रिभिर्देवदर्पघ्नैर्नैरृतेन्द्रैरभिद्रुतः
वृक्षमुत्पाटयामास महाविटपमङ्गदः
देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः
महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम्
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः
स वृक्षं कृत्तमालोक्य उत्पपात ततोऽङ्गदः
स ववर्ष ततो वृक्षाञ्शिलाश्च कपिकुञ्जरः
तान्प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः
परिघाग्रेण तान्वृक्षान्बभञ्ज च सुरान्तकः
त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः
गजेन समभिद्रुत्य वालिपुत्रं महोदरः
जघानोरसि संक्रुद्धस्तोमरैर्वज्रसंनिभैः
देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम्
उपगम्याभिहत्याशु व्यपचक्राम वेगवान्
स त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः
न विव्यथे महातेजा वालिपुत्रः प्रतापवान्
तलेन भृशमुत्पत्य जघानास्य महागजम्
पेततुर्लोचने तस्य विननाद स वारणः
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः
देवान्तकमभिद्रुत्य ताडयामास संयुगे
स विह्वलितसर्वाङ्गो वातोद्धत इव द्रुमः
लाक्षारससवर्णं च सुस्राव रुधिरं मुखात्
अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली
आविध्य परिघं घोरमाजघान तदाङ्गदम्
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा
जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह
समुत्पतन्तं त्रिशिरास्त्रिभिराशीविषोपमैः
घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह
ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुंगवैः
हनूमानपि विज्ञाय नीलश्चापि प्रतस्थतुः
ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा
तद्रावणसुतो धीमान्बिभेद निशितैः शरैः
तद्बाणशतनिर्भिन्नं विदारितशिलातलम्
सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः
ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा
परिघेणाभिदुद्राव मारुतात्मजमाहवे
तमापतन्तमुत्पत्य हनूमान्मारुतात्मजः
आजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना
स मुष्टिनिष्पिष्टविकीर्णमूर्धा; निर्वान्तदन्ताक्षिविलम्बिजिह्वः
देवान्तको राक्षसराजसूनु;र्गतासुरुर्व्यां सहसा पपात
तस्मिन्हते राक्षसयोधमुख्ये; महाबले संयति देवशत्रौ
क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं; ववर्ष नीलोरसि बाणवर्षम्
स तैः शरौघैरभिवर्ष्यमाणो; विभिन्नगात्रः कपिसैन्यपालः
नीलो बभूवाथ विसृष्टगात्रो; विष्टम्भितस्तेन महाबलेन
ततस्तु नीलः प्रतिलभ्य संज्ञां; शैलं समुत्पाट्य सवृक्षषण्डम्
ततः समुत्पत्य भृशोग्रवेगो; महोदरं तेन जघान मूर्ध्नि
ततः स शैलाभिनिपातभग्नो; महोदरस्तेन सह द्विपेन
विपोथितो भूमितले गतासुः; पपात वर्जाभिहतो यथाद्रिः
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे
हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः
हनूमांस्तु समुत्पत्य हयांस्त्रिशिरसस्तदा
विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव