Yuddhakanda, Sarga 57, Verse 1
एवं विलपमानस्य रावणस्य दुरात्मनः
श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत्
Containing 90 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवं विलपमानस्य रावणस्य दुरात्मनः
श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत्
एवमेव महावीर्यो हतो नस्तात मध्यमः
न तु सत्पुरुषा राजन्विलपन्ति यथा भवान्
नूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो
स कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम्
ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः
सहस्रखरसंयुक्तो रथो मेघसमस्वनः
त्वयासकृद्विशस्त्रेण विशस्ता देवदानवाः
स सर्वायुधसंपन्नो राघवं शास्तुमर्हसि
कामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणम्
उद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिह
शम्बरो देवराजेन नरको विष्णुना यथा
तथाद्य शयिता रामो मया युधि निपातितः
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः
पुनर्जातमिवात्मानं मन्यते कालचोदितः
श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ
अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः
ततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाः
रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः
अन्तरिक्षचराः सर्वे सर्वे माया विशारदाः
सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्मदाः
सर्वेऽस्त्रबलसंपन्नाः सर्वे विस्तीर्ण कीर्तयः
सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः
सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः
सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास्तथा
स तैस्तथा भास्करतुल्यवर्चसैः; सुतैर्वृतः शत्रुबलप्रमर्दनैः
रराज राजा मघवान्यथामरै;र्वृतो महादानवदर्पनाशनैः
स पुत्रान्संपरिष्वज्य भूषयित्वा च भूषणैः
आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे
महोदरमहापार्श्वौ भ्रातरौ चापि रावणः
रक्षणार्थं कुमाराणां प्रेषयामास संयुगे
तेऽभिवाद्य महात्मानं रावणं रिपुरावणम्
कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे
सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः
निर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः
ततः सुदर्शनं नाम नीलजीमूतसंनिभम्
ऐरावतकुले जातमारुरोह महोदरः
सर्वायुधसमायुक्तं तूणीभिश्च स्वलंकृतम्
रराज गजमास्थाय सवितेवास्तमूर्धनि
हयोत्तमसमायुक्तं सर्वायुधसमाकुलम्
आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः
त्रिशिरा रथमास्थाय विरराज धनुर्धरः
सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः
त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे
हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः
अतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा
आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम्
सुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम्
तूणीबाणासनैर्दीप्तं प्रासासि परिघाकुलम्
स काञ्चनविचित्रेण किरीटेन विराजता
भूषणैश्च बभौ मेरुः प्रभाभिरिव भास्वरः
स रराज रथे तस्मिन्राजसूनुर्महाबलः
वृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः
हयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम्
मनोजवं महाकायमारुरोह नरान्तकः
गृहीत्वा प्रासमुक्लाभं विरराज नरान्तकः
शक्तिमादाय तेजस्वी गुहः शत्रुष्विवाहवे
देवान्तकः समादाय परिघं वज्रभूषणम्
परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन्