Yuddhakanda, Sarga 56, Verse 1
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्
श्रुत्वा विनिहतं संख्ये कुम्भकर्णं महाबलम्
रावणः शोकसंतप्तो मुमोह च पपात च
पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ
त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः
भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा
महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः
ततः कृच्छ्रात्समासाद्य संज्ञां राक्षसपुंगवः
कुम्भकर्णवधाद्दीनो विललाप स रावणः
हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल
शत्रुसैन्यं प्रताप्यैकः क्व मां संत्यज्य गच्छसि
इदानीं खल्वहं नास्मि यस्य मे पतितो भुजः
दक्षिणो यं समाश्रित्य न बिभेमि सुरासुरान्
कथमेवंविधो वीरो देवदानवदर्पहा
कालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः
यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा
स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले
एते देवगणाः सार्धमृषिभिर्गगने स्थिताः
निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः
ध्रुवमद्यैव संहृष्टा लब्धलक्ष्याः प्लवंगमाः
आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः
राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया
कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः
यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्
ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम्
अद्यैव तं गमिष्यामि देशं यत्रानुजो मम
न हि भ्रातॄन्समुत्सृज्य क्षणं जीवितुमुत्सहे
देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्
कथमिन्द्रं जयिष्यामि कुम्भकर्णहते त्वयि
तदिदं मामनुप्राप्तं विभीषणवचः शुभम्
यदज्ञानान्मया तस्य न गृहीतं महात्मनः
विभीषणवचो यावत्कुम्भकर्णप्रहस्तयोः
विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः
तस्यायं कर्मणः प्रातो विपाको मम शोकदः
यन्मया धार्मिकः श्रीमान्स निरस्तो विभीषणः
इति बहुविधमाकुलान्तरात्मा; कृपणमतीव विलप्य कुम्भकर्णम्
न्यपतदथ दशाननो भृशार्त;स्तमनुजमिन्द्ररिपुं हतं विदित्वा