Yuddhakanda, Sarga 55, Verse 1
ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा
नैष्ठिकीं बुद्धिमास्थाय सर्वे संग्रामकाङ्क्षिणः
Containing 129 sacred Sanskrit shlokas with multi-author commentaries and translations.
ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा
नैष्ठिकीं बुद्धिमास्थाय सर्वे संग्रामकाङ्क्षिणः
समुदीरितवीर्यास्ते समारोपितविक्रमाः
पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः
प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः
चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः
अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च
वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन्
स कुम्भकर्णः संक्रुद्धो गदामुद्यम्य वीर्यवान्
अर्दयन्सुमहाकायः समन्ताद्व्याक्षिपद्रिपून्
शतानि सप्त चाष्टौ च सहस्राणि च वानराः
प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः
षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च
परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति
भक्षयन्भृशसंक्रुद्धो गरुडः पन्नगानिव
हनूमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान्बहून्
ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः
तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह
बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः
ततो हरीणां तदनीकमुग्रं; दुद्राव शूलं निशितं प्रगृह्य
तस्थौ ततोऽस्यापततः पुरस्ता;न्महीधराग्रं हनुमान्प्रगृह्य
स कुम्भकर्णं कुपितो जघान; वेगेन शैलोत्तमभीमकायम्
स चुक्षुभे तेन तदाभिबूतो; मेदार्द्रगात्रो रुधिरावसिक्तः
स शूलमाविध्य तडित्प्रकाशं; गिरिं यथा प्रज्वलिताग्रशृङ्गम्
बाह्वन्तरे मारुतिमाजघान; गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या
स शूलनिर्भिन्न महाभुजान्तरः; प्रविह्वलः शोणितमुद्वमन्मुखात्
ननाद भीमं हनुमान्महाहवे; युगान्तमेघस्तनितस्वनोपमम्
ततो विनेदुः सहसा प्रहृष्टा; रक्षोगणास्तं व्यथितं समीक्ष्य
प्लवंगमास्तु व्यथिता भयार्ताः; प्रदुद्रुवुः संयति कुम्भकर्णात्
नीलश्चिक्षेप शैलाग्रं कुम्भकर्णाय धीमते
तमापतन्तं संप्रेक्ष्य मुष्टिनाभिजघान ह
मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत
सविस्फुलिङ्गं सज्वालं निपपात महीतले
ऋषभः शरभो नीलो गवाक्षो गन्धमादनः
पञ्चवानरशार्दूलाः कुम्भकर्णमुपाद्रवन्
शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः
कुम्भकर्णं महाकायं सर्वतोऽभिनिजघ्निरे
स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथे
ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे
कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः
निपपातर्षभो भीमः प्रमुखागतशोणितः
मुष्टिना शरभं हत्वा जानुना नीलमाहवे
आजघान गवाक्षं च तलेनेन्द्ररिपुस्तदा
दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः
निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः
तेषु वानरमुख्येषु पतितेषु महात्मसु
वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः
तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः
समारुह्य समुत्पत्य ददंशुश्च महाबलाः
तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा
कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः
स वानरसहस्रैस्तैराचितः पर्वतोपमः
रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव
बाहुभ्यां वानरान्सर्वान्प्रगृह्य स महाबलः
भक्षयामास संक्रुद्धो गरुडः पन्नगानिव
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे
नासा पुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः
भक्षयन्भृशसंक्रुद्धो हरीन्पर्वतसंनिभः
बभञ्ज वानरान्सर्वान्संक्रुद्धो राक्षसोत्तमः
मांसशोणितसंक्लेदां भूमिं कुर्वन्स राक्षसः
चचार हरिसैन्येषु कालाग्निरिव मूर्छितः