Valmiki Ramayana

Yuddhakanda, Sarga 54

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 1

स ननाद महानादं समुद्रमभिनादयन्

जनयन्निव निर्घातान्विधमन्निव पर्वतान्

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 2

तमवध्यं मघवता यमेन वरुणेन च

प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 3

तांस्तु विद्रवतो दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत्

नलं नीलं गवाक्षं च कुमुदं च महाबलम्

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 4

आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च

क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 5

साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ

नालं युद्धाय वै रक्षो महतीयं विभीषिकाः

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 6

महतीमुत्थितामेनां राक्षसानां विभीषिकाम्

विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवंगमाः

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 7

कृच्छ्रेण तु समाश्वास्य संगम्य च ततस्ततः

वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम्

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 8

ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः

निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः

प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 9

पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते

तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः

पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 10

सोऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम्

ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 11

लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः

निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 12

लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन्

केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 13

वध्यमानास्तु ते वीरा राक्षसेन बलीयसा

सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 14

ते स्थलानि तथा निम्नं विषण्णवदना भयात्

ऋक्षा वृक्षान्समारूढाः केचित्पर्वतमाश्रिताः

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 15

ममज्जुरर्णवे केचिद्गुहाः केचित्समाश्रिताः

निषेदुः प्लवगाः केचित्केचिन्नैवावतस्थिरे

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 16

तान्समीक्ष्याङ्गदो भङ्गान्वानरानिदमब्रवीत्

अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 17

भग्नानां वो न पश्यामि परिगम्य महीमिमाम्

स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 18

निरायुधानां द्रवतामसंगगतिपौरुषाः

दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविताम्

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 19

कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च

अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 20

विकत्थनानि वो यानि यदा वै जनसंसदि

तानि वः क्व च यतानि सोदग्राणि महान्ति च

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 21

भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः

मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम्

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 22

शयामहे वा निहताः पृथिव्यामल्पजीविताः

दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः

संप्राप्नुयामः कीर्तिं वा निहत्य शत्रुमाहवे

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 23

न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति

दीप्यमानमिवासाद्य पतंगो ज्वलनं यथा

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 24

पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम्

एकेन बहवो भग्ना यशो नाशं गमिष्यति

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 25

एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्

द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम्

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 26

कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा

न स्थानकालो गच्छामो दयितं जीवितं हि नः

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 27

एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः

भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 28

द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः

सान्त्वैश्च बहुमानैश्च ततः सर्वे निवर्तिताः

Valmiki Ramayana

Yuddhakanda, Sarga 54, Verse 29

ऋषभशरभमैन्दधूम्रनीलाः; कुमुदसुषेणगवाक्षरम्भताराः

द्विविदपनसवायुपुत्रमुख्या;स्त्वरिततराभिमुखं रणं प्रयाताः