Yuddhakanda, Sarga 53, Verse 1
स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम्
अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम्
अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः
सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः
रामस्याद्य प्रमार्जामि निर्वैरस्त्वं सुखीभव
गर्जन्ति न वृथा शूर निर्जला इव तोयदाः
पश्य संपाद्यमानं तु गर्जितं युधि कर्मणा
न मर्षयति चात्मानं संभावयति नात्मना
अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम्
विक्लवानामबुद्धीनां राज्ञां पण्डितमानिनाम्
शृण्वतामादित इदं त्वद्विधानां महोदर
युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः
राजानमनुगच्छद्भिः कृत्यमेतद्विनाशितम्
राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्
राजानमिममासाद्य सुहृच्चिह्नममित्रकम्
एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये
दुर्नयं भवतामद्य समीकर्तुं महाहवे
एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः
प्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः
महोदरोऽयं रामात्तु परित्रस्तो न संशयः
न हि रोचयते तात युद्धं युद्धविशारद
कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च
गच्छ शत्रुवधाय त्वं कुम्भकर्णजयाय च
आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः
सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम्
इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम्
देवदानवगन्धर्वयक्षकिंनरसूदनम्
रक्तमाल्य महादाम स्वतश्चोद्गतपावकम्
आदाय निशितं शूलं शत्रुशोणितरञ्जितम्
कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत्
गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत्
अद्य तान्क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान्
कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत्
सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः
वानरा हि महात्मानः शीघ्राश्च व्यवसायिनः
एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम्
तस्मात्परमदुर्धर्षैः सैन्यैः परिवृतो व्रज
रक्षसामहितं सर्वं शत्रुपक्षं निसूदय
अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम्
आबबन्ध महातेजाः कुम्भकर्णस्य रावणः
अङ्गदानङ्गुलीवेष्टान्वराण्याभरणानि च
हारं च शशिसंकाशमाबबन्ध महात्मनः
दिव्यानि च सुगन्धीनि माल्यदामानि रावणः
श्रोत्रे चासज्जयामास श्रीमती चास्य कुण्डले
काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः
कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ
श्रोणीसूत्रेण महता मेचकेन विराजितः
अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः
स काञ्चनं भारसहं निवातं; विद्युत्प्रभं दीप्तमिवात्मभासा
आबध्यमानः कवचं रराज; संध्याभ्रसंवीत इवाद्रिराजः
सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः
त्रिविक्रमकृतोत्साहो नारायण इवाबभौ
भ्रातरं संपरिष्वज्य कृत्वा चापि प्रदक्षिणम्
प्रणम्य शिरसा तस्मै संप्रतस्थे महाबलिः
तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः
शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः
तं गजैश्च तुरंगैश्च स्यन्दनैश्चाम्बुदस्वनैः
अनुजग्मुर्महात्मानं रथिनो रथिनां वरम्
सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः
अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम्
स पुष्पवर्णैरवकीर्यमाणो; धृतातपत्रः शितशूलपाणिः
मदोत्कटः शोणितगन्धमत्तो; विनिर्ययौ दानवदेवशत्रुः
पदातयश बहवो महानादा महाबलाः
अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः