Yuddhakanda, Sarga 52, Verse 1
तदुक्तमतिकायस्य बलिनो बाहुशालिनः
कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
तदुक्तमतिकायस्य बलिनो बाहुशालिनः
कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः
कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः
अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम्
न हि राजा न जानीते कुम्भकर्ण नयानयौ
त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि
स्थानं वृद्धिं च हानिं च देशकालविभागवित्
आत्मनश्च परेषां च बुध्यते राक्षसर्षभ
यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना
अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान्
अनुबोद्धुं स्वभावेन न हि लक्षणमस्ति ते
कर्म चैव हि सर्वेषां कारणानां प्रयोजनम्
श्रेयः पापीयसां चात्र फलं भवति कर्मणाम्
निःश्रेयस फलावेव धर्मार्थावितरावपि
अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम्
ऐहलौकिकपारत्र्यं कर्म पुम्भिर्निषेव्यते
कर्माण्यपि तु कल्प्यानि लभते काममास्थितः
तत्र कॢप्तमिदं राज्ञा हृदि कार्यं मतं च नः
शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयते
एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया
तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च
येन पूर्वं जनस्थाने बहवोऽतिबला हताः
राक्षसा राघवं तं त्वं कथमेको जयिष्यसि
ये पुरा निर्जितास्तेन जनस्थाने महौजसः
राक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि
तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम्
सर्पं सुप्तमिवाबुद्ध्या प्रबोधयितुमिच्छसि
ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम्
कस्तं मृत्युमिवासह्यमासादयितुमर्हति
संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने
एकस्य गमनं तत्र न हि मे रोचते तव
हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतो यथा
निश्चितं जीवितत्यागे वशमानेतुमिच्छति
यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम
कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः
एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः
उवाच रक्षसां मध्ये रावणो लोकरावणम्
लब्ध्वा पुनस्तां वैदेहीं किमर्थं त्वं प्रजल्पसि
यदेच्छसि तदा सीता वशगा ते भविष्यति
दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः
रुचितश्चेत्स्वया बुद्ध्या राक्षसेश्वर तं शृणु
अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः
पञ्चरामवधायैते निर्यान्तीत्यवघोषय
ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः
जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः
अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः
ततः समभिपत्स्यामो मनसा यत्समीक्षितुम्
वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः
विदार्य स्वतनुं बाणै रामनामाङ्कितैः शितैः
भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः
तव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय
ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव
हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः
प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम
भोगांश्च परिवारांश्च कामांश्च वसुदापय
ततो माल्यानि वासांसि वीराणामनुलेपनम्
पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब
ततोऽस्मिन्बहुलीभूते कौलीने सर्वतो गते
प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय
धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय