Yuddhakanda, Sarga 51, Verse 1
तस्य राक्षसराजस्य निशम्य परिदेवितम्
कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्य राक्षसराजस्य निशम्य परिदेवितम्
कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च
दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये
हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः
निरयेष्वेव पतनं यथा दुष्कृतकर्मणः
प्रथमं वै महाराज कृत्यमेतदचिन्तितम्
केवलं वीर्यदर्पेण नानुबन्धो विचारितः
यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः
पूर्वं चोत्तरकार्याणि न स वेद नयानयौ
देशकालविहीनानि कर्माणि विपरीतवत्
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति
सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि
यथागमं च यो राजा समयं विचिकीर्षति
बुध्यते सचिवान्बुद्ध्या सुहृदश्चानुपश्यति
धर्ममर्थं च कामं च सर्वान्वा रक्षसां पते
भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते
राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम्
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम्
योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ
काले धर्मार्थकामान्यः संमन्त्र्य सचिवैः सह
निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात्
हितानुबन्धमालोक्य कार्याकार्यमिहात्मनः
राजा सहार्थतत्त्वज्ञैः सचिवैः सह जीवति
अनभिज्ञाय शास्त्रार्थान्पुरुषाः पशुबुद्धयः
प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः
अशास्त्रविदुषां तेषां न कार्यमहितं वचः
अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम्
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः
अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः
तान्भर्ता मित्रसंकाशानमित्रान्मन्त्रनिर्णये
व्यवहारेण जानीयात्सचिवानुपसंहितान्
चपलस्येह कृत्यानि सहसानुप्रधावतः
छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः
यो हि शत्रुमवज्ञाय नात्मानमभिरक्षति
अवाप्नोति हि सोऽनर्थान्स्थानाच्च व्यवरोप्यते
तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम्
भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमुवाच ह
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशासति
किमेवं वाक्श्रमं कृत्वा काले युक्तं विधीयताम्
विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा
नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कृथाः
अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयताम्
ममापनयजं दोषं विक्रमेण समीकुरु
यदि खल्वस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि
यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम्
स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते
स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते
तमथैवं ब्रुवाणं तु वचनं धीरदारुणम्
रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम्
कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन्
अलं राक्षसराजेन्द्र संतापमुपपद्य ते
रोषं च संपरित्यज्य स्वस्थो भवितुमर्हसि
नैतन्मनसि कर्तव्व्यं मयि जीवति पार्थिव
तमहं नाशयिष्यामि यत्कृते परितप्यसे