Yuddhakanda, Sarga 50, Verse 1
स तु राक्षसशार्दूलो निद्रामदसमाकुलः
राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तु राक्षसशार्दूलो निद्रामदसमाकुलः
राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः
राक्षसानां सहस्रैश्च वृतः परमदुर्जयः
गृहेभ्यः पुष्पवर्षेण कार्यमाणस्तदा ययौ
स हेमजालविततं भानुभास्वरदर्शनम्
ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम्
स तत्तदा सूर्य इवाभ्रजालं; प्रविश्य रक्षोऽधिपतेर्निवेशनम्
ददर्श दूरेऽग्रजमासनस्थं; स्वयम्भुवं शक्र इवासनस्थम्
सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च
ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम्
अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम्
तूर्णमुत्थाय संहृष्टः संनिकर्षमुपानयत्
अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः
भ्रातुर्ववन्दे चरणां किं कृत्यमिति चाब्रवीत्
उत्पत्य चैनं मुदितो रावणः परिषस्वजे
स भ्रात्रा संपरिष्वक्तो यथावच्चाभिनन्दितः
कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम्
स तदासनमाश्रित्य कुम्भकर्णो महाबलः
संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत्
किमर्थमहमादृत्य त्वया राजन्प्रबोधितः
शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति
भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम्
ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत्
अद्य ते सुमहान्कालः शयानस्य महाबल
सुखितस्त्वं न जानीषे मम रामकृतं भयम्
एष दाशरथी रामः सुग्रीवसहितो बली
समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति
हन्त पश्यस्व लङ्काया वनान्युपवनानि च
सेतुना सुखमागम्य वानरैकार्णवं कृतम्
ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि
वानराणां क्षयं युद्धे न पश्यामि कदाचन
सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम्
त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम्
भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम्
मयैवं नोक्तपूर्वो हि कश्चिद्भ्रातः परंतप
त्वय्यस्ति मम च स्नेहः परा संभावना च मे
देवासुरविमर्देषु बहुशो राक्षसर्षभ
त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि
न हि ते सर्वभूतेषु दृश्यते सदृशो बली
कुरुष्व मे प्रियहितमेतदुत्तमं; यथाप्रियं प्रियरणबान्धवप्रिय
स्वतेजसा विधम सपत्नवाहिनीं; शरद्घनं पवन इवोद्यतो महान्