Yuddhakanda, Sarga 49, Verse 1
ततो रामो महातेजा धनुरादाय वीर्यवान्
किरीटिनं महाकायं कुम्भकर्णं ददर्श ह
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो रामो महातेजा धनुरादाय वीर्यवान्
किरीटिनं महाकायं कुम्भकर्णं ददर्श ह
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम्
क्रममाणमिवाकाशं पुरा नारायणं प्रभुम्
सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम्
दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं
सविस्मयमिदं रामो विभीषणमुवाच ह
कोऽसौ पर्वतसंकशः किरीटी हरिलोचनः
लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः
पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते
यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः
आचक्ष्व मे महान्कोऽसौ रक्षो वा यदि वासुरः
न मयैवंविधं भूतं दृष्टपूर्वं कदाचन
स पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा
विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत्
येन वैवस्वतो युद्धे वासवश्च पराजितः
सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान्
एतेन देवा युधि दानवाश्च; यक्षा भुजंगाः पिशिताशनाश्च
गन्धर्वविद्याधरकिंनराश्च; सहस्रशो राघव संप्रभग्नाः
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम्
हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः
अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम्
एतेन जातमात्रेण क्षुधार्तेन महात्मना
भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि
तेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः
यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन्
स कुम्भकर्णं कुपितो महेन्द्रो; जघान वज्रेण शितेन वज्री
स शक्रवज्राभिहतो महात्मा; चचाल कोपाच्च भृशं ननाद
तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः
श्रुत्वा निनादं वित्रस्ता भूयो भूमिर्वितत्रसे
ततः कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः
विकृष्यैरावताद्दन्तं जघानोरसि वासवम्
कुम्भकर्णप्रहारार्तो विचचाल स वासवः
ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः
कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः
प्रजानां भक्षणं चापि देवानां चापि धर्षणम्
एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः
अचिरेणैव कालेन शून्यो लोको भविष्यति
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः
रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह
कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः
दृष्ट्वा निश्वस्य चैवेदं स्वयम्भूरिदमब्रवीत्
ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः
तस्मात्त्वमद्य प्रभृति मृतकल्पः शयिष्यसि
ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः
ततः परमसंभ्रान्तो रावणो वाक्यमब्रवीत्
विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते
न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते
न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः
कालस्तु क्रियतामस्य शयने जागरे तथा
रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत्
शयिता ह्येष षण्मासानेकाहं जागरिष्यति
एकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः
व्यात्तास्यो भक्षयेल्लोकान्संक्रुद्ध इव पावकः
सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत्
त्वत्पराक्रमभीतश्च राजा संप्रति रावणः
स एष निर्गतो वीरः शिबिराद्भीमविक्रमः
वानरान्भृशसंक्रुद्धो भक्षयन्परिधावति
कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः
कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः