Yuddhakanda, Sarga 48, Verse 1
स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः
भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः
Containing 87 sacred Sanskrit shlokas with multi-author commentaries and translations.
स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः
भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः
मातंग इव सिंहेन गरुडेनेव पन्नगः
अभिभूतोऽभवद्राजा राघवेण महात्मना
ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम्
स्मरन्राघवबाणानां विव्यथे राक्षसेश्वरः
स काञ्चनमयं दिव्यमाश्रित्य परमासनम्
विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत्
सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः
यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः
इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम्
मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः
अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम्
एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ
राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु
स चाप्रतिमगम्भीरो देवदानवदर्पहा
ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम्
स पराजितमात्मानं प्रहस्तं च निषूदितम्
ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः
द्वारेषु यत्नः क्रियतां प्राकाराश्चाधिरुह्यताम्
निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम्
नव षट्सप्त चाष्टौ च मासान्स्वपिति राक्षसः
तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम्
स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम्
वानरान्राजपुत्रौ च क्षिप्रमेव वधिष्यति
कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः
रामेणाभिनिरस्तस्य संग्रामोऽस्मिन्सुदारुणे
भविष्यति न मे शोकः कुम्भकर्णे विबोधिते
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि
ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते
ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः
जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम्
ते रावणसमादिष्टा मांसशोणितभोजनाः
गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः
तां प्रविश्य महाद्वारां सर्वतो योजनायताम्
कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम्
प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम्
तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम्
ददृशुर्नैरृतव्याघ्रं शयानं भीमदर्शनम्
ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम्
कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन्
ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम्
त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम्
भीमनासापुटं तं तु पातालविपुलाननम्
ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम्
ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा
मांसानां मेरुसंकाशं राशिं परमतर्पणम्
मृगाणां महिषाणां च वराहाणां च संचयान्
चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम्
ततः शोणितकुम्भांश्च मद्यानि विविधानि च
पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः
लिलिपुश्च परार्ध्येन चन्दनेन परंतपम्
दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः
धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परंतपम्
जलदा इव चोनेदुर्यातुधानाः सहस्रशः
शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान्
तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः
नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः
कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम्