Yuddhakanda, Sarga 47, Verse 1
तस्मिन्हते राक्षससैन्यपाले; प्लवंगमानामृषभेण युद्धे
भीमायुधं सागरतुल्यवेगं; प्रदुद्रुवे राक्षसराजसैन्यम्
Containing 135 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्मिन्हते राक्षससैन्यपाले; प्लवंगमानामृषभेण युद्धे
भीमायुधं सागरतुल्यवेगं; प्रदुद्रुवे राक्षसराजसैन्यम्
गत्वा तु रक्षोऽधिपतेः शशंसुः; सेनापतिं पावकसूनुशस्तम्
तच्चापि तेषां वचनं निशम्य; रक्षोऽधिपः क्रोधवशं जगाम
संख्ये प्रहस्तं निहतं निशम्य; शोकार्दितः क्रोधपरीतचेताः
उवाच तान्नैरृतयोधमुख्या;निन्द्रो यथा चामरयोधमुख्यान्
नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः
सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः
सोऽहं रिपुविनाशाय विजयायाविचारयन्
स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम्
अद्य तद्वानरानीकं रामं च सहलक्ष्मणम्
निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः
स एवमुक्त्वा ज्वलनप्रकाशं; रथं तुरंगोत्तमराजियुक्तम्
प्रकाशमानं वपुषा ज्वलन्तं; समारुरोहामरराजशत्रुः
स शङ्खभेरीपटह प्रणादै;रास्फोटितक्ष्वेडितसिंहनादैः
पुण्यैः स्तवैश्चाप्यभिपूज्यमान;स्तदा ययौ राक्षसराजमुख्यः
स शैलजीमूतनिकाश रूपै;र्मांसाशनैः पावकदीप्तनेत्रैः
बभौ वृतो राक्षसराजमुख्यै;र्भूतैर्वृतो रुद्र इवामरेशः
ततो नगर्याः सहसा महौजा; निष्क्रम्य तद्वानरसैन्यमुग्रम्
महार्णवाभ्रस्तनितं ददर्श; समुद्यतं पादपशैलहस्तम्
तद्राक्षसानीकमतिप्रचण्ड;मालोक्य रामो भुजगेन्द्रबाहुः
विभीषणं शस्त्रभृतां वरिष्ठ;मुवाच सेनानुगतः पृथुश्रीः
नानापताकाध्वजशस्त्रजुष्टं; प्रासासिशूलायुधचक्रजुष्टम्
सैन्यं नगेन्द्रोपमनागजुष्टं; कस्येदमक्षोभ्यमभीरुजुष्टम्
ततस्तु रामस्य निशम्य वाक्यं; विभीषणः शक्रसमानवीर्यः
शशंस रामस्य बलप्रवेकं; महात्मनां राक्षसपुंगवानाम्
योऽसौ गजस्कन्धगतो महात्मा; नवोदितार्कोपमताम्रवक्त्रः
प्रकम्पयन्नागशिरोऽभ्युपैति; ह्यकम्पनं त्वेनमवेहि राजन्
योऽसौ रथस्थो मृगराजकेतु;र्धून्वन्धनुः शक्रधनुःप्रकाशम्
करीव भात्युग्रविवृत्तदंष्ट्रः; स इन्द्रजिन्नाम वरप्रधानः
यश्चैष विन्ध्यास्तमहेन्द्रकल्पो; धन्वी रथस्थोऽतिरथोऽतिवीर्यः
विस्फारयंश्चापमतुल्यमानं; नाम्नातिकायोऽतिविवृद्धकायः
योऽसौ नवार्कोदितताम्रचक्षु;रारुह्य घण्टानिनदप्रणादम्
गजं खरं गर्जति वै महात्मा; महोदरो नाम स एष वीरः
योऽसौ हयं काञ्चनचित्रभाण्ड;मारुह्य संध्याभ्रगिरिप्रकाशम्
प्रासं समुद्यम्य मरीचिनद्धं; पिशाच एषाशनितुल्यवेगः
यश्चैष शूलं निशितं प्रगृह्य; विद्युत्प्रभं किंकरवज्रवेगम्
वृषेन्द्रमास्थाय गिरिप्रकाश;मायाति सोऽसौ त्रिशिरा यशस्वी
असौ च जीमूतनिकाश रूपः; कुम्भः पृथुव्यूढसुजातवक्षाः
समाहितः पन्नगराजकेतु;र्विस्फारयन्भाति धनुर्विधून्वन्
यश्चैष जाम्बूनदवज्रजुष्टं; दीप्तं सधूमं परिघं प्रगृह्य
आयाति रक्षोबलकेतुभूतः; सोऽसौ निकुम्भोऽद्भुतघोरकर्मा
यश्चैष चापासिशरौघजुष्टं; पताकिनं पावकदीप्तरूपम्
रथं समास्थाय विभात्युदग्रो; नरान्तकोऽसौ नगशृङ्गयोधी
यश्चैष नानाविधघोररूपै;र्व्याघ्रोष्ट्रनागेन्द्रमृगेन्द्रवक्त्रैः
भूतैर्वृतो भाति विवृत्तनेत्रैः; सोऽसौ सुराणामपि दर्पहन्ता
यत्रैतदिन्दुप्रतिमं विभाति;च्छत्त्रं सितं सूक्ष्मशलाकमग्र्यम्
अत्रैष रक्षोऽधिपतिर्महात्मा; भूतैर्वृतो रुद्र इवावभाति
असौ किरीटी चलकुण्डलास्यो; नागेन्द्रविन्ध्योपमभीमकायः
महेन्द्रवैवस्वतदर्पहन्ता; रक्षोऽधिपः सूर्य इवावभाति
प्रत्युवाच ततो रामो विभीषणमरिंदमम्
अहो दीप्तो महातेजा रावणो राक्षसेश्वरः
आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः
सुव्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम्
देवदानववीराणां वपुर्नैवंविधं भवेत्
यादृशं राक्षसेन्द्रस्य वपुरेतत्प्रकाशते
सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः
सर्वे दीप्तायुधधरा योधश्चास्य महौजसः
भाति राक्षसराजोऽसौ प्रदीप्तैर्भीमविक्रमैः
भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः