Yuddhakanda, Sarga 42, Verse 1
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम्
विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम्
विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः
तेषां तु तुमुलं युद्धं संजज्ञे हरिरक्षसाम्
अन्योन्यं पादपैर्घोरैर्निघ्नतं शूलमुद्गरैः
राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः
वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः
राक्षसाश्चापि संक्रुद्धा वानरान्निशितैः शरैः
विव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः
ते गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैः
घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संशितैः
विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः
अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत्
शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः
जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः
ते भीमवेगा हरयो नर्दमानास्ततस्ततः
ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे
तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम्
शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः
राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः
ववर्षू रुधिरं केचिन्मुखै रुधिरभोजनाः
पार्श्वेषु दारिताः केचित्केचिद्राशीकृता द्रुमैः
शिलाभिश्चूर्णिताः केचित्केचिद्दन्तैर्विदारिताः
ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः
रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः
वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः
राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः
विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः
मूढाः शोणितगन्धेन निपेतुर्धरणीतले
नये तु परमक्रुद्धा राक्षसा भीमविक्रमाः
तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन्
वनरैरापतन्तस्ते वेगिता वेगवत्तरैः
मुष्टिभिश्चरणैर्दन्तैः पादपैश्चापपोथिताः
सन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः
क्रोधेन कदनं चक्रे वानराणां युयुत्सताम्
प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः
मुद्गरैराहताः केचित्पतिता धरणीतले
परिघैर्मथितः केचिद्भिण्डिपालैर्विदारिताः
पट्टसैराहताः केचिद्विह्वलन्तो गतासवः
केचिद्विनिहता भूमौ रुधिरार्द्रा वनौकसः
केचिद्विद्राविता नष्टाः संक्रुद्धै राक्षसैर्युधि
विभिन्नहृदयाः केचिदेकपार्श्वेन शायिताः
विदारितास्त्रशूलै च केचिदान्त्रैर्विनिस्रुताः
तत्सुभीमं महद्युद्धं हरिराकस संकुलम्
प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम्
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम्
मन्द्रस्तनितसंगीतं युद्धगान्धर्वमाबभौ
धूम्राक्षस्तु धनुष्पाणिर्वानरान्रणमूर्धनि
हसन्विद्रावयामास दिशस्ताञ्शरवृष्टिभिः
धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः
अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम्
क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः
शिलां तां पातयामास धूम्राक्षस्य रथं प्रति
आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात्
रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत
सा प्रमथ्य रथं तस्य निपपात शिलाभुवि
सचक्रकूबरं साश्वं सध्वजं सशरासनम्
स भङ्क्त्वा तु रथं तस्य हनूमान्मारुतात्मजः
रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः
विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः
द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले