Yuddhakanda, Sarga 41, Verse 1
तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम्
नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम्
नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः
स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम्
सचिवानां ततस्तेषां मध्ये वचनमब्रवीत्
यथासौ संप्रहृष्टानां वानराणां समुत्थितः
बहूनां सुमहान्नादो मेघानामिव गर्जताम्
व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः
तथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः
तौ तु बद्धौ शरैस्तीष्क्णैर्भ्रातरौ रामलक्ष्मणौ
अयं च सुमहान्नादः शङ्कां जनयतीव मे
एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः
उवाच नैरृतांस्तत्र समीपपरिवर्तिनः
ज्ञायतां तूर्णमेतषां सर्वेषां वनचारिणाम्
शोककाले समुत्पन्ने हर्षकारणमुत्थितम्
तथोक्तास्तेन संभ्रान्ताः प्राकारमधिरुह्य ते
ददृशुः पालितां सेनां सुग्रीवेण महात्मना
तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ
समुत्थितौ महाभागौ विषेदुः प्रेक्ष्य राक्षसाः
संत्रस्तहृदया सर्वे प्राकारादवरुह्य ते
विषण्णवदनाः सर्वे राक्षसेन्द्रमुपस्थिताः
तदप्रियं दीनमुखा रावणस्य निशाचराः
कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ
निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ
विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे
पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः
चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत्
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोमपैः
अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि
तमस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम
संशयस्थमिदं सर्वमनुपश्याम्यहं बलम्
निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः
आदत्तं यैस्तु संग्रामे रिपूणां मम जीवितम्
एवमुक्त्वा तु संक्रुद्धो निश्वसन्नुरगो यथा
अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राकसं
बलेन महता युक्तो रक्षसां भीमकर्मणाम्
त्वं वधायाभिनिर्याहि रामस्य सह वानरैः
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता
कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात्
अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षमुवाच ह
त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः
धूम्राक्षस्य वचः श्रुत्वा बलाध्यक्षो बलानुगः
बलमुद्योजयामास रावणस्याज्ञया द्रुतम्
ते बद्धघण्टा बलिनो घोररूपा निशाचराः
विनर्दमानाः संहृष्टा धूम्राक्षं पर्यवारयन्
विविधायुधहस्ताश्च शूलमुद्गरपाणयः
गदाभिः पट्टसैर्दण्डैरायसैर्मुसलैर्भृशम्
परिघैर्भिण्डिपालैश्च भल्लैः प्रासैः परश्वधैः
निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः
सुवर्णजालविहितैः खरैश्च विविधाननैः
हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैः
निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः
वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः
आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः
प्रहसन्पश्चिमद्वारं हनूमान्यत्र यूथपः
प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम्
अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यवारयन्