Yuddhakanda, Sarga 40, Verse 1
अथोवाच महातेजा हरिराजो महाबलः
किमियं व्यथिता सेना मूढवातेव नौर्जले
Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथोवाच महातेजा हरिराजो महाबलः
किमियं व्यथिता सेना मूढवातेव नौर्जले
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत्
न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम्
शरजालाचितौ वीरावुभौ दशरथात्मजौ
शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ
अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम्
नानिमित्तमिदं मन्ये भवितव्यं भयेन तु
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः
प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः
विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः
सुग्रीवं वर्धयामास राघवं च निरैक्षत
विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम्
ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह
विभीषणोऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाः
विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया
शीघ्रमेतान्सुवित्रस्तान्बहुधा विप्रधावितान्
पर्यवस्थापयाख्याहि विभीषणमुपस्थितम्
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः
वानरान्सान्त्वयामास संनिवर्त्य प्रहावतः
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसंभ्रमाः
ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम्
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम्
लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः
जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च
शोकसंपीडितमना रुरोद विललाप च
इमौ तौ सत्त्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ
इमामवस्थां गमितौ राकसैः कूटयोधिभिः
भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना
राक्षस्या जिह्मया बुद्ध्या छलितावृजुविक्रमौ
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ
वसुधायामिम सुप्तौ दृश्येते शल्यकाविव
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया
तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ
जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः
प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः
एवं विलपमानं तं परिष्वज्य विभीषणम्
सुग्रीवः सत्त्वसंपन्नो हरिराजोऽब्रवीदिदम्
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः
रावणः सह पुत्रेण स राज्यं नेह लप्स्यते
शरसंपीडितावेतावुभौ राघवलक्ष्मणौ
त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे
तमेवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं
सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह
सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ
गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम्
मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम्
श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत्
देवासुरं महायुद्धमनुभूतं सुदारुणम्
तदा स्म दानवा देवाञ्शरसंस्पर्शकोविदाः
निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः
तानार्तान्नष्टसंज्ञांश्च परासूंश्च बृहस्पतिः
विध्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम्
जवेन वानराः शीघ्रं संपाति पनसादयः
हरयस्तु विजानन्ति पार्वती ते महौषधी
संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम्