Yuddhakanda, Sarga 39, Verse 1
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ
निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ
निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ
सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः
परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः
एतस्मिन्नन्तेरे रामः प्रत्यबुध्यत वीर्यवान्
स्थिरत्वात्सत्त्वयोगाच्च शरैः संदानितोऽपि सन्
ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम्
भ्रातरं दीनवदनं पर्यदेवयदातुरः
किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा
शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम्
शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता
न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः
परित्यक्ष्याम्यहं प्राणान्वानराणां तु पश्यताम्
यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्
कथमम्बां सुमित्रांच पुत्रदर्शनलालसाम्
विवत्सां वेपमानां च क्रोशन्तीं कुररीमिव
कथमाश्वासयिष्यामि यदि यास्यामि तं विना
कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम्
मया सह वनं यातो विना तेनागतः पुनः
उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया
इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ
लक्ष्मणः पतितः शेते शरतल्पे गतासुवत्
त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण
गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम्
येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ
तस्यामेव क्षितौ वीरः स शेते निहतः परैः
शयानः शरतल्पेऽस्मिन्स्वशोणितपरिप्लुतः
शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन्
बाणाभिहतमर्मत्वान्न शक्नोत्यभिवीक्षितुम्
रुजा चाब्रुवतो ह्यस्य दृष्टिरागेण सूच्यते
यथैव मां वनं यान्तमनुयातो महाद्युतिः
अहमप्यनुयास्यामि तथैवैनं यमक्षयम्
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः
इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः
सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे
परुषं विप्रियं वापि श्रावितं न कदाचन
विससर्जैकवेगेन पञ्चबाणशतानि यः
इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः
सोऽयमुर्व्यांहतः शेते महार्हशयनोचितः
तच्च मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः
यन्मया न कृतो राजा राक्षसानां विभीषणः
अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि
मत्वा हीनं मया राजन्रावणोऽभिद्रवेद्बली
अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः
सागरं तर सुग्रीव पुनस्तेनैव सेतुना
कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे
ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च
युद्धं केसरिणा संख्ये घोरं संपातिना कृतम्
गवयेन गवाक्षेण शरभेण गजेन च
अन्यैश्च हरिभिर्युद्धं मदार्थे त्यक्तजीवितैः
न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः
यत्तु शक्यं वयस्येन सुहृदा वा परंतप
कृतं सुग्रीव तत्सर्वं भवताधर्मभीरुणा
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ
शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवितम्
वर्तयां चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः