Yuddhakanda, Sarga 38, Verse 1
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम्
विललाप भृशं सीता करुणं शोककर्शिता
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम्
विललाप भृशं सीता करुणं शोककर्शिता
ऊचुर्लक्षणिका ये मां पुत्रिण्यविधवेति च
तेऽस्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः
तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः
वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः
तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम्
तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः
इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः
अधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह
वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः
नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा
सत्यानीमानि पद्मानि स्त्रीणामुक्त्वानि लक्षणे
तान्यद्य निहते रामे वितथानि भवन्ति मे
केशाः सूक्ष्माः समा नीला भ्रुवौ चासंगते मम
वृत्ते चालोमशे जङ्घे दन्ताश्चाविरला मम
शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ
अनुवृत्ता नखाः स्निग्धाः समाश्चाङ्गुलयो मम
स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ
मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्कं च मे चितम्
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च
प्रतिष्ठितां द्वदशभिर्मामूचुः शुभलक्षणाम्
समग्रयवमच्छिद्रं पाणिपादं च वर्णवत्
मन्दस्मितेत्येव च मां कन्यालक्षणिका विदुः
अधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह
कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम्
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च
तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च
अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम्
अदृश्यमानेन रणे मायया वासवोपमौ
मम नाथावनाथाया निहतौ रामलक्ष्मणौ
न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः
जीवन्प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः
न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः
यत्र रामः सह भ्रात्रा शेते युधि निपाथितः
नाहं शोचामि भर्तारं निहतं न च लक्ष्मणम्
नात्मानं जननी चापि यथा श्वश्रूं तपस्विनीम्
सा हि चिन्तयते नित्यं समाप्तव्रतमागतम्
कदा द्रक्ष्यामि सीतां च रामं च सहलक्ष्मणम्
परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत्
मा विषादं कृथा देवि भर्तायं तव जीवति
कारणानि च वक्ष्यामि महान्ति सदृशानि च
यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ
न हि कोपपरीतानि हर्षपर्युत्सुकानि च
भवन्ति युधि योधानां मुखानि निहते पतौ
इदं विमानं वैदेहि पुष्पकं नाम नामतः
दिव्यं त्वां धारयेन्नेदं यद्येतौ गजजीवितौ
हतवीरप्रधाना हि हतोत्साहा निरुद्यमा
सेना भ्रमति संख्येषु हतकर्णेव नौर्जले
इयं पुनरसंभ्रान्ता निरुद्विग्ना तरस्विनी
सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः
अहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन
चारित्रसुखशीलत्वात्प्रविष्टासि मनो मम
नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः
एतयोराननं दृष्ट्वा मया चावेदितं तव