Yuddhakanda, Sarga 37, Verse 1
प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे
राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे
राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः
हनूमानङ्गदो नीलः सुषेणः कुमुदो नलः
गजो गवाक्षो गवयः शरभो गन्धमादनः
जाम्बवानृषभः सुन्दो रम्भः शतबलिः पृथुः
व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः
वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः
तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम्
आजुहाव ततः सीता रक्षणी राक्षसीस्तदा
राक्षस्यस्त्रिजटा चापि शासनात्तमुपस्थिताः
ता उवाच ततो हृष्टो राक्षसी राक्षसेश्वरः
हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ
पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे
यदाश्रयादवष्टब्धो नेयं मामुपतिष्ठति
सोऽस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि
निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली
मामुपस्थास्यते सीता सर्वाभरणभूषिता
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम्
अवेक्ष्य विनिवृत्ताशा नान्यां गतिमपश्यती
तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः
राक्षस्यस्तास्तथेत्युक्त्वा प्रजग्मुर्यत्र पुष्पकम्
ततः पुष्पकमादय राक्षस्यो रावणाज्ञया
अशोकवनिकास्थां तां मैथिलीं समुपानयन्
तामादाय तु राक्षस्यो भर्तृशोकपरायणाम्
सीतामारोपयामासुर्विमानं पुष्पकं तदा
ततः पुष्पकमारोप्य सीतां त्रिजटया सह
रावणोऽकारयल्लङ्कां पताकाध्वजमालिनीम्
प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः
राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे
विमानेनापि सीता तु गत्वा त्रिजटया सह
ददर्श वानराणां तु सर्वं सिन्यं निपातितम्
प्रहृष्टमनसश्चापि ददर्श पिशिताशनान्
वानरांश्चापि दुःखार्तान्रामलक्ष्मणपार्श्वतः
ततः सीता ददर्शोभौ शयानौ शततल्पयोः
लक्ष्मणं चैव रामं च विसंज्ञौ शरपीडितौ
विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ
सायकैश्छिन्नसर्वाङ्गौ शरस्तम्भमयौ क्षितौ
तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ
दुःखार्ता सुभृशं सीता करुणं विललाप ह
सा बाष्पशोकाभिहता समीक्ष्य; तौ भ्रातरौ देवसमप्रभावौ
वितर्कयन्ती निधनं तयोः सा; दुःखान्विता वाक्यमिदं जगाद