Yuddhakanda, Sarga 36, Verse 1
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः
ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः
ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे
आजगामाथ तं देशं ससुग्रीवो विभीषणः
नीलद्विविदमैन्दाश्च सुषेणसुमुखाङ्गदाः
तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ
निश्चेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ
शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः
निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ
रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ
तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ
यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ
बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः
न चैनं मायया छन्नं ददृशू रावणिं रणे
तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः
वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम्
तमप्रतिम कर्माणमप्रतिद्वन्द्वमाहवे
ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः
इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च
उवाच परमप्रीतो हर्षयन्सर्वनैरृतान्
दूषणस्य च हन्तारौ खरस्य च महाबलौ
सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात्
सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम
अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वती
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला
सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया
रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम्
विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः
एवमुक्त्वा तु तान्सर्वान्राक्षसान्परिपार्श्वगान्
यूथपानपि तान्सर्वांस्ताडयामास रावणिः
तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान्
प्रजहास महाबाहुर्वचनं चेदमब्रवीत्
शरबन्धेन घोरेण मया बद्धौ चमूमुखे
सहितौ भ्रातरावेतौ निशामयत राक्षसाः
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः
परं विस्मयमाजग्मुः कर्मणा तेन तोषिताः
विनेदुश्च महानादान्सर्वे ते जलदोपमाः
हतो राम इति ज्ञात्वा रावणिं समपूजयन्
निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ
वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत
हर्षेण तु समाविष्ट इन्द्रजित्समितिंजयः
प्रविवेश पुरीं लङ्कां हर्षयन्सर्वनैरृतान्
रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते
सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत्
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः
सबाष्पवदनं दीनं शोकव्याकुललोचनम्
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम्
एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः
सशेषभाग्यतास्माकं यदि वीर भविष्यति
मोहमेतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ
पर्यवस्थापयात्मानमनाथं मां च वानर
सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम्
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना
सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः
प्रमृज्य वदनं तस्य कपिराजस्य धीमतः
अब्रवीत्कालसंप्रातमसंभ्रान्तमिदं वचः