Yuddhakanda, Sarga 35, Verse 1
स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान्
दिदेशातिबलो रामो दशवानरयूथपान्
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान्
दिदेशातिबलो रामो दशवानरयूथपान्
द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम्
अङ्गदं वालिपुत्रं च शरभं च तरस्विनम्
विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम्
ऋषभं चर्षभस्कन्धमादिदेश परंतपः
ते संप्रहृष्टा हरयो भीमानुद्यम्य पादपान्
आकाशं विविशुः सर्वे मार्गामाणा दिशो दश
तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः
अस्त्रवित्परमास्त्रेण वारयामास रावणिः
तं भीमवेगा हरयो नाराचैः क्षतविक्षताः
अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम्
रामलक्ष्मणयोरेव सर्वमर्मभिदः शरान्
भृशमावेशयामास रावणिः समितिंजयः
निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ
क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः
तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु
तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ
ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः
रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत्
युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः
द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम्
प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा
एष रोषपरीतात्मा नयामि यमसादनम्
एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ
निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च
भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः
भूयो भूयः शरान्घोरान्विससर्ज महामृधे
ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान्
रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः
बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि
निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम्
ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ
ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ
तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौ
निपेततुर्महेष्वासौ जगत्यां जगतीपती
तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ
शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ
न ह्यविद्धं तयोर्गात्रं बभूवाङ्गुलमन्तरम्
नानिर्भिन्नं न चास्तब्धमा कराग्रादजिह्मगैः
तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा
असृक्सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव
पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः
क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः
नारचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि
विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा
स वीरशयने शिश्ये विज्यमादाय कार्मुकम्
भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम्
बाणपातान्तरे रामं पतितं पुरुषर्षभम्
स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत्
बद्धौ तु वीरौ पतितौ शयानौ; तौ वानराः संपरिवार्य तस्थुः
समागता वायुसुतप्रमुख्या; विषदमार्ताः परमं च जग्मुः