Yuddhakanda, Sarga 34, Verse 1
युध्यतामेव तेषां तु तदा वानररक्षसाम्
रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
युध्यतामेव तेषां तु तदा वानररक्षसाम्
रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी
अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम्
संप्रवृत्तं निशायुद्धं तदा वारणरक्षसाम्
राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः
अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे
जहि दारय चैतीति कथं विद्रवसीति च
एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे
कालाः काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाः
संप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव
तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः
परिपेतुर्महावेगा भक्षयन्तः प्लवंगमान्
ते हयान्काञ्चनापीडन्ध्वजांश्चाग्निशिखोपमान्
आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन्
कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान्
चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः
लक्ष्मणश्चापि रामश्च शरैराशीविषोमपैः
दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः
तुरंगखुरविध्वस्तं रथनेमिसमुद्धतम्
रुरोध कर्णनेत्राणिण्युध्यतां धरणीरजः
वर्तमाने तथा घोरे संग्रामे लोमहर्षणे
रुधिरोदा महावेगा नद्यस्तत्र प्रसुस्रुवुः
ततो भेरीमृदङ्गानां पणवानां च निस्वनः
शङ्खवेणुस्वनोन्मिश्रः संबभूवाद्भुतोपमः
हतानां स्तनमानानां राक्षसानां च निस्वनः
शस्त्राणां वानराणां च संबभूवातिदारुणः
शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी
दुर्ज्ञेया दुर्निवेशा च शोणितास्रवकर्दमा
सा बभूव निशा घोरा हरिराक्षसहारिणी
कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा
ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे
राममेवाभ्यधावन्त संहृष्टा शरवृष्टिभिः
तेषामापततां शब्दः क्रुद्धानामभिगर्जताम्
उद्वर्त इव सप्तानां समुद्राणामभूत्स्वनः
तेषां रामः शरैः षड्भिः षड्जघान निशाचरान्
निमेषान्तरमात्रेण शितैरग्निशिखोपमैः
यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ
वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ
ते तु रामेण बाणौघः सर्वमर्मसु ताडिताः
युद्धादपसृतास्तत्र सावशेषायुषोऽभवन्
ततः काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः
दिशश्चकार विमलाः प्रदिशश्च महाबलः
ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः
तेऽपि नष्टाः समासाद्य पतंगा इव पावकम्
सुवर्णपुङ्खैर्विशिखैः संपतद्भिः सहस्रशः
बभूव रजनी चित्रा खद्योतैरिव शारदी
राक्षसानां च निनदैर्हरीणां चापि गर्जितैः
सा बभूव निशा घोरा भूयो घोरतरा तदा
तेन शब्देन महता प्रवृद्धेन समन्ततः
त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः
गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः
संपरिष्वज्य बाहुभ्यां भक्षयन्रजनीचरान्
अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः
रावणेर्निजघानाशु सारथिं च हयानपि
इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः
अङ्गदेन महामायस्तत्रैवान्तरधीयत
सोऽन्तर्धान गतः पापो रावणी रणकर्कशः
ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छितः
अदृश्यो निशितान्बाणान्मुमोचाशनिवर्चसः
स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः
बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः