Yuddhakanda, Sarga 33, Verse 1
युध्यतां तु ततस्तेषां वानराणां महात्मनाम्
रक्षसां संबभूवाथ बलकोपः सुदारुणः
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
युध्यतां तु ततस्तेषां वानराणां महात्मनाम्
रक्षसां संबभूवाथ बलकोपः सुदारुणः
ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः
रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः
निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश
राक्षसा भीमकर्माणो रावणस्य जयैषिणः
वानराणामपि चमूर्महती जयमिच्चताम्
अभ्यधावत तां सेनां रक्षसां कामरूपिणाम्
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम्
रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत
अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः
अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः
प्रजङ्घेन च संपातिर्नित्यं दुर्मर्षणो रणे
जम्बूमालिनमारब्धो हनूमानपि वानरः
संगतः सुमहाक्रोधो राक्षसो रावणानुजः
समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः
तपनेन गजः सार्धं राक्षसेन महाबलः
निकुम्भेन महातेजा नीलोऽपि समयुध्यत
वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः
संगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः
सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः
वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः
राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः
समरे तीक्ष्णवेगेन नलेन समयुध्यत
धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः
स विद्युन्मालिना सार्धमयुध्यत महाकपिः
वानराश्चापरे भीमा राक्षसैरपरैः सह
द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह
तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम्
रक्षसां वानराणां च वीराणां जयमिच्छताम्
हरिराक्षसदेहेभ्यः प्रसृताः केशशाड्वलाः
शरीरसंघाटवहाः प्रसुस्रुः शोणितापगाः
आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः
अङ्गदं गदया वीरं शत्रुसैन्यविदारणम्
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम्
जघान समरे श्रीमानङ्गदो वेगवान्कपिः
संपातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः
निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि
जम्बूमाली रथस्थस्तु रथशक्त्या महाबलः
बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे
तस्य तं रथमास्थाय हनूमान्मारुतात्मजः
प्रममाथ तलेनाशु सह तेनैव रक्षसा
भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा
प्रजघानाद्रिशृङ्गेण तपनं मुष्टिना गजः
ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः
सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च
प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम्
निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः
सुप्तिघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः
तेषां चतुर्णां रामस्तु शिरांसि समरे शरैः
क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः
वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे
पपात सरथः साश्वः पुराट्ट इव भूतले
वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम्
जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम्
द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे
शरैरशनिसंकाशैः स विव्याधाशनिप्रभः