Yuddhakanda, Sarga 32, Verse 1
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम्
न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम्
न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः
विधानं द्विगुणं श्रुत्वा प्रासादं सोऽध्यरोहत
स ददर्शावृतां लङ्कां सशैलवनकाननाम्
असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः
स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम्
कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत्
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः
राघवं हरियूथांश्च ददर्शायतलोचनः
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः
राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः
लङ्कामेवाह्यवर्तन्त सालतालशिलायुधाः
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवंगमाः
प्रासादाग्राणि चोच्चानि ममन्तुस्तोरणानि च
पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः
पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः
ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः
कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा
काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवंगमाः
कैलासशिखराभानि गोपुराणि प्रमथ्य च
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः
लङ्कां तामभ्यवर्तन्त महावारणसंनिभाः
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः
राजा जयति सुग्रीवो राघवेणाभिपालितः
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवंगमाः
अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः
वीरबाहुः सुबाहुश्च नलश्च वनगोचरः
निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः
एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम्
पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः
आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः
दक्षिणद्वारमागम्य वीरः शतबलिः कपिः
आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः
सुषेणः पश्चिमद्वारं गतस्तारा पिता हरिः
आवृत्य बलवांस्तस्थौ षष्टि कोटिभिरावृतः
उत्तरद्वारमासाद्य रामः सौमित्रिणा सह
आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्वतः
ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः
संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः
वृतो यस्तैस्तु सचिवैस्तस्थौ तत्र महाबलः
गजो गवाक्षो गवयः शरभो गन्धमादनः
समन्तात्परिघावन्तो ररक्षुर्हरिवाहिनीम्
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः
निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः
समये पूर्यमाणस्य वेगा इव महोदधेः
एतस्मिन्नन्तरे घोरः संग्रामः समपद्यत
रक्षसां वानराणां च यथा देवासुरे पुरा
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः
निजघ्नुर्वानरान्घोराः कथयन्तः स्वविक्रमान्
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः
राक्षसास्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः
राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान्
भिण्डिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन्