Yuddhakanda, Sarga 31, Verse 1
अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः
लक्ष्मणं लक्ष्मिसंपन्नमिदं वचनमब्रवीत्
Containing 86 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः
लक्ष्मणं लक्ष्मिसंपन्नमिदं वचनमब्रवीत्
परिगृह्योदकं शीतं वनानि फलवन्ति च
बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्
निबर्हणं प्रवीराणामृक्षवानररक्षसाम्
वाताश्च परुषं वान्ति कम्पते च वसुंधरा
पर्वताग्राणि वेपन्ते पतन्ति धरणीधराः
मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः
क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः
रक्तचन्दनसंकाशा संध्यापरमदारुणा
ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम्
आदित्यमभिवाश्यन्ते जनयन्तो महद्भयम्
दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः
रजन्यामप्रकाशश्च संतापयति चन्द्रमाः
कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः
आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते
दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते
युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च
शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः
क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम्
अभियाम जवेनैव सर्वतो हरिभिर्वृताः
इत्येवं तु वदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः
तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः
अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवः
परैः परमदुर्धर्षं ददर्श बलमात्मनः
संनह्य तु ससुग्रीवः कपिराजबलं महत्
कालज्ञो राघवः काले संयुगायाभ्यचोदयत्
ततः काले महाबाहुर्बलेन महता वृतः
प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम्
तं विभीषण सुग्रीवौ हनूमाञ्जाम्बवान्नलः
ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्ययुस्तदा
ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम्
प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम्
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहाम्
जगृहुः कुञ्जरप्रख्या वानराः परवारणाः
तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ
रावणस्य पुरीं लङ्कामासेदतुररिंदमौ
पताकामालिनीं रम्यामुद्यानवनशोभिताम्
चित्रवप्रां सुदुष्प्रापामुच्चप्राकारतोरणाम्
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः
यथानिदेशं संपीड्य न्यविशन्त वनौकसः
लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम्
रामः सहानुजो धन्वी जुगोप च रुरोध च
लङ्कामुपनिविष्टश्च रामो दशरथात्मजः
लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम्
उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः
नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम्
रावणाधिष्ठितं भीमं वरुणेनेव सागरम्
सायुधौ राक्षसैर्भीमैरभिगुप्तं समन्ततः
लघूनां त्रासजननं पातालमिव दानवैः
विन्यस्तानि च योधानां बहूनि विविधानि च
ददर्शायुधजालानि तथैव कवचानि च
पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः
अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान्
अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः
ऋषभेण गवाक्षेण गजेन गवयेन च
हनूमान्पश्चिमद्वारं ररक्ष बलवान्कपिः
प्रमाथि प्रघसाभ्यां च वीरैरन्यैश्च संगतः