Yuddhakanda, Sarga 30, Verse 1
तां रात्रिमुषितास्तत्र सुवेले हरिपुंगवाः
लङ्कायां ददृशुर्वीरा वनान्युपवनानि च
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
तां रात्रिमुषितास्तत्र सुवेले हरिपुंगवाः
लङ्कायां ददृशुर्वीरा वनान्युपवनानि च
समसौम्यानि रम्याणि विशालान्यायतानि च
दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः
चम्पकाशोकपुंनागसालतालसमाकुला
तमालवनसंछन्ना नागमालासमावृता
हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः
तिलकैः कर्णिकारैश्च पटालैश्च समन्ततः
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः
लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती
विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः
शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः
गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च
धारयन्त्यगमास्तत्र भूषणानीव मानवाः
तच्चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम्
वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम्
नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः
रुतं परभृतानां च शुश्रुवे वननिर्झरे
नित्यमत्तविहंगानि भ्रमराचरितानि च
कोकिलाकुलषण्डानि विहगाभिरुतानि च
भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च
कोणालकविघुष्टानि सारसाभिरुतानि च
विविशुस्ते ततस्तानि वनान्युपवनानि च
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः
तेषां प्रविशतां तत्र वानराणां महौजसाम्
पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः
अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः
सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम्
वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान्
कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः
कुर्वन्तस्ते महावेगा महीं चारणपीडिताम्
रजश्च सहसैवोर्ध्वं जगाम चरणोद्धतम्
ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः
तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश
शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम्
समन्तात्पुष्पसंछन्नं महारजतसंनिभम्
शतयोजनविस्तीर्णं विमलं चारुदर्शनम्
श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि
मनसापि दुरारोहं किं पुनः कर्मणा जनैः
निविष्टा तत्र शिखरे लङ्का रावणपालिता
सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः
काञ्चनेन च सालेन राजतेन च शोभिता
प्रासादैश्च विमानैश्च लङ्का परमभूषिता
घनैरिवातपापाये मध्यमं वैष्णवं पदम्
यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः
कैलासशिखराकारो दृश्यते खमिवोल्लिखन्
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम्
शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते
तां समृद्धां समृद्धार्थो लक्ष्मीवाँल्लक्ष्मणाग्रजः
रावणस्य पुरीं रामो ददर्श सह वानरैः
तां रत्नपूर्णां बहुसंविधानां; प्रासादमालाभिरलंकृतां च
पुरीं महायन्त्रकवाटमुख्यां; ददर्श रामो महता बलेन