Yuddhakanda, Sarga 29, Verse 1
स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति
लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति
लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत्
विभीषणं च धर्मज्ञमनुरक्तं निशाचरम्
मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा
सुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम्
अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम्
लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः
येन मे मरणान्ताय हृता भार्या दुरात्मना
येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा
राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम्
यस्मिन्मे वर्धते रोषः कीर्तिते राक्षसाधमे
यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम्
एको हि कुरुते पापं कालपाशवशं गतः
नीचेनात्मापचारेण कुलं तेन विनश्यति
एवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति
रामः सुवेलं वासाय चित्रसानुमुपारुहत्
पृष्ठतो लक्ष्मण चैनमन्वगच्छत्समाहितः
सशरं चापमुद्यम्य सुमहद्विक्रमे रतः
तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः
हनूमानङ्गदो नीलो मैन्दो द्विविद एव च
गजो गवाक्षो गवयः शरभो गन्धमादनः
पनसः कुमुदश्चैव हरो रम्भश्च यूथपः
एते चान्ये च बहवो वानराः शीघ्रगामिनः
ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः
अध्यारोहन्त शतशः सुवेलं यत्र राघवः
ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः
ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम्
तां शुभां प्रवरद्वारां प्राकारवरशोभिताम्
लङ्कां राक्षससंपूर्णां ददृशुर्हरियूथपाः
प्राकारचयसंस्थैश्च तथा नीलैर्निशाचरैः
ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम्
ते दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्क्षिणः
मुमुचुर्विपुलान्नादांस्तत्र रामस्य पश्यतः
ततोऽस्तमगमत्सूर्यः संध्यया प्रतिरञ्जितः
पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते
ततः स रामो हरिवाहिनीपति;र्विभीषणेन प्रतिनन्द्य सत्कृतः
सलक्ष्मणो यूथपयूथसंवृतः; सुवेल पृष्ठे न्यवसद्यथासुखम्