Yuddhakanda, Sarga 27, Verse 1
तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः
न मर्षयति दुष्टात्मा कालस्य वशमागतः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः
न मर्षयति दुष्टात्मा कालस्य वशमागतः
स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः
अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत्
हितबुद्ध्या यदहितं वचः परुषमुच्यते
परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम
मानुषं कृपणं राममेकं शाखामृगाश्रयम्
समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम्
रक्षसामीश्वरं मां च देवतानां भयंकरम्
हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः
वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः
त्वयाहं परुषाण्युक्तः परप्रोत्साहनेन वा
प्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति
पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः
आनीय च वनात्सीतां पद्महीनामिव श्रियम्
किमर्थं प्रतिदास्यामि राघवस्य भयादहम्
वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्
पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे
स कस्माद्रावणो युद्धे भयमाहारयिष्यति
द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित्
एष मे सहजो दोषः स्वभावो दुरतिक्रमः
यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया
रामेण विस्मयः कोऽत्र येन ते भयमागतम्
स तु तीर्त्वार्णवं रामः सह वानरसेनया
प्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति
एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्
व्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत
जयाशिषा च राजानं वर्धयित्वा यथोचितम्
माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम्
रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च
लङ्कायामतुलां गुप्तिं कारयामास राक्षसः
व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसं
दक्षिणस्यां महावीर्यौ महापार्श्व महोदरौ
पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा
व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम्
उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ
स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह
राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम्
मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः
एवंविधानं लङ्कायां कृत्वा राक्षसपुंगवः
मेने कृतार्थमात्मानं कृतान्तवशमागतः
विसर्जयामास ततः स मन्त्रिणो; विधानमाज्ञाप्य पुरस्य पुष्कलम्
जयाशिषा मन्त्रगणेन पूजितो; विवेश सोऽन्तःपुरमृद्धिमन्महत्