Valmiki Ramayana

Yuddhakanda, Sarga 26

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 1

तेन शङ्खविमिश्रेण भेरीशब्देन राघवः

उपयतो महाबाहू रामः परपुरंजयः

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 2

तं निनादं निशम्याथ रावणो राक्षसेश्वरः

मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 3

अथ तान्सचिवांस्तत्र सर्वानाभाष्य रावणः

सभां संनादयन्सर्वामित्युवाच महाबलः

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 4

तरणं सागरस्यापि विक्रमं बलसंचयम्

यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम्

भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान्

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 5

ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः

रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत्

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 6

विद्यास्वभिविनीतो यो राजा राजन्नयानुगः

स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 7

संदधानो हि कालेन विगृह्णंश्चारिभिः सह

स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 8

हीयमानेन कर्तव्यो राज्ञा संधिः समेन च

न शत्रुमवमन्येत ज्यायान्कुर्वीत विग्रहम्

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 9

तन्मह्यं रोचते संधिः सह रामेण रावण

यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम्

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 10

तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः

विरोधं मा गमस्तेन संधिस्ते तेन रोचताम्

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 11

असृजद्भगवान्पक्षौ द्वावेव हि पितामहः

सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 12

धर्मो हि श्रूयते पक्षः सुराणां च महात्मनाम्

अधर्मो रक्षसं पक्षो ह्यसुराणां च रावण

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 13

धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम्

अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 14

तत्त्वया चरता लोकान्धर्मो विनिहतो महान्

अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 15

स प्रमादाद्विवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः

विवर्धयति पक्षं च सुराणां सुरभावनः

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 16

विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वया

ऋषीणामग्निकल्पानामुद्वेगो जनितो महान्

तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 17

तपसा भावितात्मानो धर्मस्यानुग्रहे रताः

मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 18

जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते

अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन्

दिशो विप्रद्रुताः सर्वे स्तनयित्नुरिवोष्णगे

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 19

ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः

आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 20

तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः

चर्यमाणं तपस्तीव्रं संतापयति राक्षसान्

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 21

उत्पातान्विविधान्दृष्ट्वा घोरान्बहुविधांस्तथा

विनाशमनुपश्यामि सर्वेषां रक्षसामहम्

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 22

खराभिस्तनिता घोरा मेघाः प्रतिभयंकरः

शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 23

रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः

ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम्

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 24

व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम्

प्रविश्य लङ्कामनिशं समवायांश्च कुर्वते

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 25

कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः

स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 26

गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते

खरा गोषु प्रजायन्ते मूषिका नकुलैः सह

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 27

मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह

किंनरा राक्षसैश्चापि समेयुर्मानुषैः सह

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 28

पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः

राक्षसानां विनाशाय कपोता विचरन्ति च

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 29

चीकी कूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः

पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः

Valmiki Ramayana

Yuddhakanda, Sarga 26, Verse 30

करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः

कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते

एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च