Yuddhakanda, Sarga 23, Verse 1
सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्
सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्
सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता
नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम्
केशान्केशान्तदेशं च तं च चूडामणिं शुभम्
एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता
विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा
सकामा भव कैकेयि हतोऽयं कुलनन्दनः
कुलमुत्सादितं सर्वं त्वया कलहशीलया
आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम्
यद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम्
एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी
जगाम जगतीं बाला छिन्ना तु कदली यथा
सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम्
तच्छिरः समुपाघ्राय विललापायतेक्षणा
हा हतास्मि महाबाहो वीरव्रतमनुव्रता
इमां ते पश्चिमावस्थां गतास्मि विधवा कृता
प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते
सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः
दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे
यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः
सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव
वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता
आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम
अनृतं वचनं तेषामल्पायुरसि राघव
अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव
पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम्
अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित्
व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने
तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया
कालरात्र्या मयाच्छिद्य हृतः कमललोचनः
उपशेषे महाबाहो मां विहाय तपस्विनीम्
प्रियामिव शुभां नारीं पृथिवीं पुरुषर्षभ
अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव
इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम्
पित्रा दशरथेन त्वं श्वशुरेण ममानघ
पूर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः
दिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम्
पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे
किं मान्न प्रेक्षसे राजन्किं मां न प्रतिभाषसे
बालां बालेन संप्राप्तां भार्यां मां सहचारिणीम्
संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया
स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम्
कस्मान्मामपहाय त्वं गतो गतिमतां वर
अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम्
कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु
क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः
अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे
प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम्
परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा
स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते
तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम्
सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम्
हृदयेन विदीर्णेन न भविष्यति राघव
साधु पातय मां क्षिप्रं रामस्योपरि रावणः
समानय पतिं पत्न्या कुरु कल्याणमुत्तमम्
शिरसा मे शिरश्चास्य कायं कायेन योजय
रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः
मुहूर्तमपि नेच्छामि जीवितुं पापजीविना
श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः