Yuddhakanda, Sarga 22, Verse 1
ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चरः
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चरः
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्
जातोद्वेगोऽभवत्किंचित्सचिवांश्चेदमब्रवीत्
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः
अयं नो मन्त्रकालो हि संप्राप्त इव राक्षसाः
तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम्
ततः संमन्त्रयामास सचिवै राक्षसैः सह
मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम्
विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम्
ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम्
मायाविदं महामायः प्राविशद्यत्र मैथिली
विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः
मोहयिष्यामहे सीतां मायया जनकात्मजाम्
शिरो मायामयं गृह्य राघवस्य निशाचर
मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः
एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः
तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम्
अशोकवनिकायां तु प्रविवेश महाबलः
ततो दीनामदैन्यार्हां ददर्श धनदानुजः
अधोमुखीं शोकपरामुपविष्टां महीतले
भर्तारमेव ध्यायन्तीमशोकवनिकां गताम्
उपास्यमानां घोराभी राक्षसीभिरदूरतः
उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन्
इदं च वचनं धृष्टमुवाच जनकात्मजाम्
सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे
खर हन्ता स ते भर्ता राघवः समरे हतः
छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया
व्यसनेनात्मनः सीते मम भार्या भविष्यसि
अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि
शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा
समायातः समुद्रान्तं मां हन्तुं किल राघवः
वानरेन्द्रप्रणीतेन बलेन महता वृतः
संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम्
बलेन महता रामो व्रजत्यस्तं दिवाकरे
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम्
सुखसुप्तं समासाद्य चारितं प्रथमं चरैः
तत्प्रहस्तप्रणीतेन बलेन महता मम
बलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः
पट्टसान्परिघान्खड्गांश्चक्रान्दण्डान्महायसान्
बाणजालानि शूलानि भास्वरान्कूटमुद्गरान्
यष्टीश्च तोमरान्प्रासंश्चक्राणि मुसलानि च
उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना
असक्तं कृतहस्तेन शिरश्छिन्नं महासिना
विभीषणः समुत्पत्य निगृहीतो यदृच्छया
दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह
सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः
निरस्तहनुकः शेते हनूमान्राक्षसैर्हतः
जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि
पट्टसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा
मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ
निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ
असिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनः
अभिष्टनति मेदिन्यां पनसः पनसो यथा
नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः
कुमुदस्तु महातेजा निष्कूजन्सायकैर्हतः
अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः
पातितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः
हरयो मथिता नागै रथजालैस्तथापरे
शायिता मृदितास्तत्र वायुवेगैरिवाम्बुदाः