Yuddhakanda, Sarga 21, Verse 1
ततस्तमक्षोभ्य बलं लङ्काधिपतये चराः
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्तमक्षोभ्य बलं लङ्काधिपतये चराः
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्
जातोद्वेगोऽभवत्किंचिच्छार्दूलं वाक्यमब्रवीत्
अयथावच्च ते वर्णो दीनश्चासि निशाचर
नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः
इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत्
तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः
न ते चारयितुं शक्या राजन्वानरपुंगवाः
विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः
नापि संभाषितुं शक्याः संप्रश्नोऽत्र न लभ्यते
सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः
प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते
बलाद्गृहीतो बहुभिर्बहुधास्मि विदारितः
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम्
परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः
परिणीय च सर्वत्र नीतोऽहं रामसंसदम्
रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः
हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः
राघवेण परित्रातो जीवामि ह यदृच्छया
एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम्
द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः
गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः
मां विसृज्य महातेजा लङ्कामेवाभिवर्तते
पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु
सीतां चास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम्
मनसा संततापाथ तच्छ्रुत्वा राक्षसाधिपः
शार्दूलस्य महद्वाक्यमथोवाच स रावणः
यदि मां प्रतियुध्येरन्देवगन्धर्वदानवाः
नैव सीतां प्रदास्यामि सर्वलोकभयादपि
एवमुक्त्वा महातेजा रावणः पुनरब्रवीत्
चारिता भवता सेना केऽत्र शूराः प्लवंगमाः
कीदृशाः किंप्रभावाश्च वानरा ये दुरासदाः
कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस
तत्रत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम्
अवश्यं बलसंख्यानं कर्तव्यं युद्धमिच्छता
अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः
इदं वचनमारेभे वक्तुं रावणसंनिधौ
अथर्क्षरजसः पुत्रो युधि राजन्सुदुर्जयः
गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः
गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः
कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम्
सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान्
सौम्यः सोमात्मजश्चात्र राजन्दधिमुखः कपिः
सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः
मृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा
पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम्
अनिलस्य च पुत्रोऽत्र हनूमानिति विश्रुतः
नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा
मैन्दश्च द्विविदश्चोभौ बलिनावश्विसंभवौ
पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः
गजो गवाक्षो गवयः शरभो गन्धमादनः
श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसंभवौ
वरुणस्य च पुत्रोऽथ हेमकूटः प्लवंगमः
विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः
विक्रान्तो वेगवानत्र वसुपुत्रः सुदुर्धरः
दशवानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम्
श्रीमतां देवपुत्राणां शेषान्नाख्यातुमुत्सहे
पुत्रो दशरथस्यैष सिंहसंहननो युवा
दूषणो निहतो येन खरश्च त्रिशिरास्तथा