Yuddhakanda, Sarga 18, Verse 1
तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान्
राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम्
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान्
राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम्
स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः
प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः
पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः
यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः
द्रुमानुद्यम्य सहिता लङ्कारोहणतत्पराः
एष कोटीसहस्रेण वानराणां महौजसाम्
आकाङ्क्षते त्वां संग्रामे जेतुं परपुरंजय
नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि
असिताञ्जनसंकाशान्युद्धे सत्यपराक्रमान्
नखदंष्ट्रायुधान्वीरांस्तीक्ष्णकोपान्भयावहान्
असंख्येयाननिर्देश्यान्परं पारमिवोदधेः
पर्वतेषु च ये केचिद्विषमेषु नदीषु च
एते त्वामभिवर्तन्ते राजन्नृष्काः सुदारुणाः
एषां मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः
पर्जन्य इव जीमूतैः समन्तात्परिवारितः
ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन्
सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः
यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम्
भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे
स एष जाम्बवान्नाम महायूथपयूथपः
प्रशान्तो गुरुवर्ती च संप्रहारेष्वमर्षणः
एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता
देवासुरे जाम्बवता लब्धाश्च बहवो वराः
आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः
मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च
राक्षसानां च सदृशाः पिशाचानां च रोमशाः
एतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः
यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम्
प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम्
एष राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः
बलेन बलसंपन्नो रम्भो नामैष यूथपः
यः स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते
ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्
यस्मान्न परमं रूपं चतुष्पादेषु विद्यते
श्रुतः संनादनो नाम वानराणां पितामहः
येन युद्धं तदा दत्तं रणे शक्रस्य धीमता
पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः
यस्य विक्रममाणस्य शक्रस्येव पराक्रमः
एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना
पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्
यस्य वैश्रवणो राजा जम्बूमुपनिषेवते
यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम्
विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप
तत्रैष वसति श्रीमान्बलवान्वानरर्षभः
युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः
वृतः कोटिसहस्रेण हरीणां समुपस्थितः
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्
यो गङ्गामनु पर्येति त्रासयन्हस्तियूथपान्
हस्तिनां वानराणां च पूर्ववैरमनुस्मरन्
एष यूथपतिर्नेता गच्छन्गिरिगुहाशयः
हरीणां वाहिनी मुख्यो नदीं हैमवतीमनु
उशीर बीजमाश्रित्य पर्वतं मन्दरोपमम्
रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्
एनं शतसहस्राणां सहस्रमभिवर्तते
एष दुर्मर्षणो राजन्प्रमाथी नाम यूथपः
वातेनेवोद्धतं मेघं यमेनमनुपश्यसि
विवर्तमानं बहुशो यत्रैतद्बहुलं रजः
एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्