Yuddhakanda, Sarga 17, Verse 1
तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम्
निशम्य रावणो राजा प्रत्यभाषत सारणम्
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम्
निशम्य रावणो राजा प्रत्यभाषत सारणम्
यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः
नैव सीतां प्रदास्यामि सर्वलोकभयादपि
त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम्
प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे
को हि नाम सपत्नो मां समरे जेतुमर्हति
इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः
आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डुरम्
बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया
ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः
पश्यमानः समुद्रं च पर्वतांश्च वनानि च
ददर्श पृथिवीदेशं सुसंपूर्णं प्लवंगमैः
तदपारमसंख्येयं वानराणां महद्बलम्
आलोक्य रावणो राजा परिपप्रच्छ सारणम्
एषां वानरमुख्यानां के शूराः के महाबलाः
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः
केषां शृणोति सुग्रीवः के वा यूथपयूथपाः
सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवंगमाः
सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः
आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः
एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः
यूथपानां सहस्राणां शतेन परिवारितः
यस्य घोषेण महता सप्राकारा सतोरणा
लङ्का प्रवेपते सर्वा सशैलवनकानना
सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः
बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान्
लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते
गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः
स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः
यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश
एष वानरराजेन सुर्ग्रीवेणाभिषेचितः
यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च
उत्थाय च विजृम्भन्ते क्रोधेन हरिपुंगवाः
एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः
अष्टौ शतसहस्राणि दशकोटिशतानि च
य एनमनुगच्छन्ति वीराश्चन्दनवासिनः
एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम्
श्वेतो रजतसंकाशः सबलो भीमविक्रमः
बुद्धिमान्वानरः शूरस्त्रिषु लोकेषु विश्रुतः
तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः
विभजन्वानरीं सेनामनीकानि प्रहर्षयन्
यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम्
नाम्ना संकोचनो नाम नानानगयुतो गिरिः
तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः
योऽसौ शतसहस्राणां सहस्रं परिकर्षति
यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः
अदीनो रोषणश्चण्डः संग्राममभिकाङ्क्षति
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्
यस्त्वेष सिंहसंकाशः कपिलो दीर्घकेसरः
निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा
विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम्
राजन्सततमध्यास्ते रम्भो नामैष यूथपः
शतं शतसहस्राणां त्रिंशच्च हरियूथपाः
परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा
यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः
न च संविजते मृत्योर्न च यूथाद्विधावति
महाबलो वीतभयो रम्यं साल्वेय पर्वतम्
राजन्सततमध्यास्ते शरभो नाम यूथपः
एतस्य बलिनः सर्वे विहारा नाम यूथपाः
राजञ्शतसहस्राणि चत्वारिंशत्तथैव च