Valmiki Ramayana

Yuddhakanda, Sarga 16

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 1

सबले सागरं तीर्णे रामे दशरथात्मजे

अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 2

समग्रं सागरं तीर्णं दुस्तरं वानरं बलम्

अभूतपूर्वं रामेण सागरे सेतुबन्धनम्

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 3

सागरे सेतुबन्धं तु न श्रद्दध्यां कथंचन

अवश्यं चापि संख्येयं तन्मया वानरं बलम्

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 4

भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ

परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 5

मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः

ये पूर्वमभिवर्तन्ते ये च शूराः प्लवंगमाः

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 6

स च सेतुर्यथा बद्धः सागरे सलिलार्णवे

निवेशश्च यथा तेषां वानराणां महात्मनाम्

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 7

रामस्य व्यवसायं च वीर्यं प्रहरणानि च

लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथ

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 8

कश्च सेनापतिस्तेषां वानराणां महौजसाम्

एतज्ज्ञात्वा यथातत्त्वं शीघ्रमगन्तुमर्हथः

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 9

इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ

हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम्

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 10

ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम्

संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 11

तत्स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च

समुद्रस्य च तीरेषु वनेषूपवनेषु च

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 12

तरमाणं च तीर्णं च तर्तुकामं च सर्वशः

निविष्टं निविशच्चैव भीमनादं महाबलम्

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 13

तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः

आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ

लङ्कायाः समनुप्राप्तौ चारौ परपुरंजयौ

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 14

तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा

कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 15

आवामिहागतौ सौम्य रावणप्रहितावुभौ

परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 16

तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः

अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 17

यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः

यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम्

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 18

प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः

वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 19

यद्बलं च समाश्रित्य सीतां मे हृतवानसि

तद्दर्शय यथाकामं ससैन्यः सहबान्धवः

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 20

श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम्

राक्षसं च बलं पश्य शरैर्विध्वंसितं मया

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 21

घोरं रोषमहं मोक्ष्ये बलं धारय रावण

श्वःकाले वज्रवान्वज्रं दानवेष्विव वासवः

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 22

इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ

आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम्

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 23

विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर

दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 24

एकस्थानगता यत्र चत्वारः पुरुषर्षभाः

लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 25

रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः

सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 26

एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्

उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 27

यादृशं तस्य रामस्य रूपं प्रहरणानि च

वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 28

रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी

बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः

Valmiki Ramayana

Yuddhakanda, Sarga 16, Verse 29

प्रहृष्टरूपा ध्वजिनी वनौकसां; महात्मनां संप्रति योद्धुमिच्छताम्

अलं विरोधेन शमो विधीयतां; प्रदीयतां दाशरथाय मैथिली